________________
२८०
व्युत्पत्तिवादः। दिकर्तृकाध्ययनाधिकरणतास्वरूपव्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः। अतो मासमधोयानो इष्ट इत्यादौ विशिष्य चैत्रत्वाद्यनुप. स्थितावपि नान्वयबोधानुपपत्तिः । अन्यत्स्वयमूहनीयम् । ___ दण्डं विना न घट उत्पद्यते, रासभं विनापि घट उत्पद्यत इत्यादी विनापदार्थो ऽभाववान् । तत्पदसमभिव्याहृतद्वितीयाया अभावान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः । अभाववत्तश्वोत्पत्तावाधारत्वेनान्वयः । तथा च दण्डाभाव ववृत्त्युत्पत्तिकभाववान् घटों रासभाभावववृत्त्युत्पत्तिको घट इत्याकारको बोधः। यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदेनान्वयः, तथापि सम्भवति सार्थकत्वे विभक्तनिरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुपेयते ।
भूतले न घटश्चन्द्र इव मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात् । प्रातिपदिकार्थान्वयनोन्यपदेनाभिधानस्थल एच प्रातिपदिकार्थेत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः सम्बन्धविधथैव भासत इत्युपेयते । दण्ड विना न घटोत्पत्तिरित्यादौ च विनान्तार्थे घटोत्पत्याद्यभावान्वये ऽनुयोगिविशेषणदण्डाद्यभावस्य च तदनु। योगितावच्छेदकत्वं भासते। द्रव्ये न गन्ध इत्यप्रयोगात् उपलक्षणीभूत. धर्मावच्छिन्ने न नबर्थाभावान्वय इतिव्युत्पत्तेरिति रासभं बिना न घटोत्पत्तिरिति न प्रयोगः ? अतिप्रसक्ततया रासभाभावस्य घटोत्पत्त्याधभावानुयोगितावच्छेदकताविरहात् ।
अथवा अभाव एव विनार्थः। दण्डं विना न घट इत्यादौ च विना. न्तार्थस्याभावस्य नबर्थे घटायभावे प्रयोन्यतासम्बन्धेनैवान्वयः । अत एव रासभं विना न घट इत्यादयो न प्रयोगाः। अत एव दण्डाद्यभाष. वति घटादेवृत्तावपि जायते इत्यस्याध्याहारं विनैव दण्डं विना न घट इति प्रयोगोपपत्तिः। रासभं विना घट इत्यादौ च विनार्थस्याभावस्य सामानाधिकरण्यसम्बन्धेन घटादावन्वयः । दोधितिकृताप्यविनाभाको व्याप्तिरित्यत्र साध्यं विना साध्याभाववति योऽभाव इति यदुव्याख्यातं तत्र सप्तम्यन्तेन संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तं न तु विनार्थत्वेनाधिकरणम् । अभावाधिकरणपर्यन्तस्य विनापदार्थवे. ऽपि सप्तम्याधेयत्वरूपापदार्थविवरणरूपताया आवश्यकत्वात् । न च
अन्यपदेनेति-नात्र शक्तम्पदमिति गृह्यते किन्तु "सुप्तिङन्तमिति पारिभाषिकमतो न दोषः।