________________
शास्त्रार्थकलोपस्कृतः ।
२८१ विनापदोत्तरलुप्त सप्तम्यर्थ एवाभाववतीति सप्तम्या विकृत इति वाच्यम् ? निपातोत्तरविभक्तनिरर्थकत्वात् ।
अत एव सर्वत्र निपातोत्तरं साधुत्वार्थ प्रथमैवेति शाब्दिकाः । पृथिव्यामेव गन्ध इत्यादावेवकारप्रकृतिकसप्तम्या यदाधेयत्वबोधकत्वमङ्गीकृतं दीधितिकृद्धिस्तत्रापि तेषां न निर्भरः।
अस्तु वा तत्र प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुरोधेनैवकारस्यान्यावृ त्तत्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लूप्तायाः सप्तम्याः कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्ती विनापद. साकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव । एवकारस्थले चाभा. वरूप एवार्थेन्यरूपतदर्थान्तरस्यावेयतासम्बन्ध इति न सम्भवति ? आधेयतादेस्तद्वत्येव सम्बन्धत्वात् न तु तदभावे । न च तत्राधेयत्वाभावो न प्रतीयते, अपि तु तत्सम्बन्धावच्छिन्न प्रतियोगिताकपृथिव्याद्यन्याभाव इत्युपेयम् । ताशप्रतियोगिताकत्वमेवाभावेऽन्यस्य सम्बन्धोस्त्विति वाच्यम् ? आधेयतासम्बन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाभावप्रतियोगितानवच्छेदकत्वात्। चैत्रः पचतीत्यादौ कृत्यादिसम्बन्धस्यापदार्यत्वेऽपि पाककृतिमानित्यादौ मतुबादिपदेन विवरणवत् उक्तस्थले सामानाधिकरण्यस्य पदेन विवरणमपि न वि. रोधमासादयति । विरवणीयार्थस्याप्यन्यलभ्यत्वेऽपदार्थतोपपत्तेरित्यलमसदावेशेन । विना वातं वृक्षः पतित इत्यादौ विनापदार्थस्याभावस्याश्रयतासम्बन्धेन बृक्षेऽन्वयादाताभावविशिष्टो वृक्षः पतित इति शब्दतो लभ्यते। पतनेऽनुभवसिद्धो बातजन्यत्वाभावलाभश्चार्थः, जन्यतायाः पदानुपस्थाप्यत्वात् तदभावस्य तस्य बृत्यनियामकसम्बन्धत्वात्तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् । पुत्रं विना गत इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम् । विनापदबोध्यतदभावश्च समानकालीनस्वादिसम्बन्धेन गमनेऽन्वेति । समानकालीनत्वघटकं कालनिष्ठं स्थाधिकरणत्वमनवच्छिन्नं बोध्यम् । अतों गमनादिकाले . तदनधिकरणदेशावच्छेदेन गमनोद्यभावसत्त्वेऽपि नातिप्रसङ्गः।
केचित्तु सक्तस्थले साहित्यमेव विनापदार्थः। तस्य च गमनादि. कर्तव्यत्वयः । असाहित्यं च स्वकत कसमभिव्याहृतगमनादिक्रियासमानकालीनतादृशक्रियाकर्तृत्वरूपसाहित्याभावः, क्रियान्वयिस्वकत क
अस्तु वेति-सप्तम्याः कल्पनमिति वाक्येन सम्बन्धः । स्वाधिकरणत्वमिति-स्वं गमनाऽभावः । स्वकर्तृ कसभिव्याहृतेति--स्वकर्तृका या सम