Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 267
________________ २५९ शास्त्रार्थकलोपस्कृतः। यद्यपि भाश्रयत्त्वस्य नित्यत्वे जलवानघट इत्यादी घटादेस्त्पत्तिविनाशव्यवहारो न भवेदयम्बजदोषस्तथापि वायुत्त्वरूपयोस्समवायस्यैकत्वेऽपि रूपनिरूपितत्वाऽभावेन वायौ रूपवत्ताप्रतीत्यभाववन्न प्रतिभाति हानिस्तथापि पूर्वोक्तापतेरनिर्वार्थरत्वात् । वस्तुतस्तु लकारस्य कर्तरि शक्ती वैयाकरणमते राजसम्बन्धिपुरषाऽभिन्नकन कं गमनमिति तात्पर्येण राशः पुरुषो गच्छतीति प्रयोगवत् स्वस्वामिभावादिसम्वन्धेन राज्ञः कत्रन्वयविवक्षया राजा पुरुषो गच्छतीति प्रयोगापत्तिः । नच तत्र षष्ठी भवति १ तदर्थस्य प्रातिपदिकार्थविशेष्यत्त्वे सत्येव विवक्षिते षष्ठीविधानादत्र तस्या अप्राप्तेः। तथा चैतत्तोषभिया कृतावेव शक्तिः प्रतिभाति । ननु "भावकर्मणो" रितिसूत्रेण तयोरात्मनेपदविधानम् "शेषात्कर्तरि परस्मैपदमि" ति सूत्रेण कर्तरि परस्मैपदविधानमिति लकाराणां भावफर्मकारोऽस्स्युिरेव "ल: कर्मणीति"सर्व सूत्रङ्किमर्थमिति प्रश्नः । निरुक्तरीत्या सूत्राभावे नियन्तुरभावेन सकमभ्योऽपि धातुभ्यो भावे प्रत्ययापत्तौ पटं भिद्यते यशदत्तेनेत्यादिप्रयोगापत्तेः । नचैवम् ' अकर्मकेभ्यो भावे ल', इत्येव सूत्रमस्तु भावे चेल्लकारस्तर्हि अकर्मकेभ्य एवेति न पूर्वोक्तो दोष इति वाच्यम् ? यत्र २ स्वतोनियमस्तम २ विपरीतनियमोऽपि इति न्यायेन कदाचित् “अकर्मकेभ्यश्चेद् भाव एव'' इति नियमापत्त्यां अकर्मकेभ्यः कर्त्तरोष्टरयापि लकारस्याभावापत्तेः । नच एवम् 'भावे चाकर्मकेम्यो ल” इत्येव लाघबात् सूत्रमस्तु चकारात् कर्तरीत्यनुकर्षात् अकर्मकेभ्यो भावे कर्तरि च लकारोपपत्तौ न दोष इति वाच्यम् ? कर्तरीत्यंशेऽपि भाववत् अकर्मकेम्य एवेति नियमापत्तौ सकर्मकेभ्यः कत्तरि इष्टस्यापि लकारस्याभावापत्तेः नन्वेक्मेतहोषवारणाय "लश्च" भावेचाकमकेभ्यः" इति न्यास एवास्तु पूर्वत्र योगे चकारात् कर्तरीत्यनुकृष्य लकाराः सक. मकेभ्यः कर्तरि स्युरितितात्पर्यवर्णनेन कर्मणि च शापकादेव लकारविधाने सिद्धे न दोष इति चेन्न ? उत्तरत्र "तयोरेव कृत्यक्त" इतिसूत्रे कर्मणोऽपि परामर्शार्थमेतस्यावश्यकत्वादिति । __ आख्यातस्थले क्रियामुख्यबिशेष्यकरशान्दवोधः । अत एव "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति" यास्काचार्यवचनमनुकूलम् भावो भावना उत्पादना क्रियेति यावत् । अत एव चैत्रो ग्रामङ्गच्छतीत्यादावेकत्वावच्छिन्नचैत्राऽभिन्नकर्तुको वर्तमानकालिको ग्रामाऽभिन्नकर्मनिष्ठो यस्संयोगस्तदनुकूलगमनव्यापार इत्त्येवमनेकशाब्दबोधप्रकारा अस्मत्कृतपरिष्कारदर्पणे द्रष्टन्या इति वैयाकरणमतम् । काण्डे कुड्ये रमते ब्राह्मणकुलमिति क्रियाप्रधानमिति “हस्वो नपुंसके प्रातिपदिकत्ये"तिसूत्रभाष्यं सङ्गच्छते । तत्रैतनाम क्रियानुरोधेन गुणभूतक्रियावाचिभ्यः कालान्तरे प्रत्यया न तु तिङ्कालान्तरे इति व्यवतिष्ठते । प्रथमान्तार्थमुख्यविशेष्यकशान्दबोधो नैयायिक

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296