Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 261
________________ शाखाथकलोपस्कृतः २५३ नच कतत्त्वन्नहि कृतिविशिष्टत्त्वमपि तु व्यापाराश्रयत्वम् "अनन्यलभ्यो हि शब्दार्थ' इतिन्यायेन व्यापारस्य धातुलभ्यत्वेन आश्रयमात्रं लकारार्थः,आश्रये शक्तिः, आश्रयस्य चैत्रादिपदारलाभेऽपि आश्रयत्वेन सामान्येन लाभाऽभाव इति वाच्यम् ? अचेतनस्याऽपि काष्ठादेः कर्तृत्वप्रसङ्गात् । नच रथो गच्छतीत्यादावचेतनस्य रथादेः कर्तृत्वाऽसम्भवेनाश्रये लक्षणया बोधेनेष्टापत्तिरिति वाच्यम् ? पाककतुत्वावच्छिन्नाधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्त जिज्ञासितो यो धर्मस्तद्वान्पचतीत्या. कारकान्वयबोधजनकं यत्किञ्चिद्धर्मावच्छिन्नोद्देश्यताकपाककत्तु त्वविधेयकज्ञानम्भवत्त्वित्त्याकारकजिज्ञासायां प्रयुक्तं कः पचतीतिवाक्यम् । तस्य श्रवणानन्तरं चैत्र:पचति ब्राह्मणः पचतीत्यादिकमेव लोक उत्तरवाक्यम्प्रयुक्त नतु काष्ठम्पचतीति । इदानी वैयाकरणनये तादृशवाक्यस्थाऽपि उक्तेच्छानिवर्तकत्वेन प्रयोगापत्तेलों के तु कृतियत्नविशेषस्तद्विशिष्ट एव कर्त्ता न तु व्यापारविशिष्टोऽपि । किञ्च पचतीत्यस्य पाकं करोतीत्येव विवरणं श्रुयते न तु पाकाश्रयव्यापाराश्रय इति । तदेव किं करोति ? पचति-इतिप्रश्नोत्तरयोस्समानार्थकबोधजनकत्वानुरोधेन कृधातोरिव लकाराणां कृति. वाचकत्त्वं सुलभमेव । नच कृधातोय्यत्नार्थकत्वे बीजादिनाऽङ्करः कृत इत्यादौ अङ्करे यत्नाऽभावात्कथं शाब्दबोध इति वाच्यम् ? तत्र कृधातोरुत्पत्त्याश्रये लक्षणास्वीकारेणापत्तिविरहात् । पश्य मृगो धावत'त्यत्रैकवाक्यता भाष्यसम्मतेतिनिरुक्तअध्याय ।।१।१० तद्यत्रोभे भावप्रधाने इतिसूत्रम् तदर्थश्च यत्र वाक्ये उभे नामाख्याते स्तस्तत्र भावप्रधाने भवत इति । पचति भवतीति भाष्यस्य पाको भवतीति । प्रथमान्तकर्तृवाचकपदसत्त्वे प्रायः प्रथमान्तार्थमुख्यविशेष्यक एव बोधो नैयायिकानामपि, प्रायः पदोपादानेन पश्य मृगो घावतीतिभाष्यसिद्धकवाक्यतानुरोधेन च कचित् क्रियाविशेष्यकोऽपि शाब्दबोधः। कर्मतासम्बन्धेन तिङर्थभावनाप्रकारकवोधे धातुजन्यभावनोपस्थितिः कारणम् इति कार्यकारणभावात् । __नच गौरवानुसन्धानम् ? भाष्यसिद्धैकवाक्यताऽनुरोधेन धात्वर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितिः कारणमिति साम्यमेवेति व्याख्यानात् । परन्तु वैयाकरणमते देवदत्तः पचति भवतीत्येकवाक्यतानुरोधेन प्रथमान्तार्थकत्तृ कारकबोधे तिकुर्थभावनोपस्थितिः कारणम् । प्रथमान्तार्थकत्त विशिष्टा पाककृतिवत्त मानभावनाss. श्रयिकेति शाब्द इति नैकवाक्यत्वानिः । एवञ्चकवाक्यता या पदैकवाक्यता सा शाब्दिकतार्किकमतद्वयेऽपि सिद्धयतीति । भावार्थकाख्यातस्थले तु भावनाया एव विशेष्यत्वम् , तथैव प्रतीतेः। लटत्वेन कालार्थकलिङनुवादक एव संख्या नाख्यातार्थोऽन्वयाऽप्रतीतेः । साधुत्वार्थमेकवचनमेवैकवचनमुत्सर्गतः करिष्यत इति "येकयो"रितिभाष्यात् ।

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296