________________
शाखाथकलोपस्कृतः
२५३ नच कतत्त्वन्नहि कृतिविशिष्टत्त्वमपि तु व्यापाराश्रयत्वम् "अनन्यलभ्यो हि शब्दार्थ' इतिन्यायेन व्यापारस्य धातुलभ्यत्वेन आश्रयमात्रं लकारार्थः,आश्रये शक्तिः, आश्रयस्य चैत्रादिपदारलाभेऽपि आश्रयत्वेन सामान्येन लाभाऽभाव इति वाच्यम् ? अचेतनस्याऽपि काष्ठादेः कर्तृत्वप्रसङ्गात् । नच रथो गच्छतीत्यादावचेतनस्य रथादेः कर्तृत्वाऽसम्भवेनाश्रये लक्षणया बोधेनेष्टापत्तिरिति वाच्यम् ? पाककतुत्वावच्छिन्नाधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्त जिज्ञासितो यो धर्मस्तद्वान्पचतीत्या. कारकान्वयबोधजनकं यत्किञ्चिद्धर्मावच्छिन्नोद्देश्यताकपाककत्तु त्वविधेयकज्ञानम्भवत्त्वित्त्याकारकजिज्ञासायां प्रयुक्तं कः पचतीतिवाक्यम् । तस्य श्रवणानन्तरं चैत्र:पचति ब्राह्मणः पचतीत्यादिकमेव लोक उत्तरवाक्यम्प्रयुक्त नतु काष्ठम्पचतीति । इदानी वैयाकरणनये तादृशवाक्यस्थाऽपि उक्तेच्छानिवर्तकत्वेन प्रयोगापत्तेलों के तु कृतियत्नविशेषस्तद्विशिष्ट एव कर्त्ता न तु व्यापारविशिष्टोऽपि । किञ्च पचतीत्यस्य पाकं करोतीत्येव विवरणं श्रुयते न तु पाकाश्रयव्यापाराश्रय इति । तदेव किं करोति ? पचति-इतिप्रश्नोत्तरयोस्समानार्थकबोधजनकत्वानुरोधेन कृधातोरिव लकाराणां कृति. वाचकत्त्वं सुलभमेव । नच कृधातोय्यत्नार्थकत्वे बीजादिनाऽङ्करः कृत इत्यादौ अङ्करे यत्नाऽभावात्कथं शाब्दबोध इति वाच्यम् ? तत्र कृधातोरुत्पत्त्याश्रये लक्षणास्वीकारेणापत्तिविरहात् ।
पश्य मृगो धावत'त्यत्रैकवाक्यता भाष्यसम्मतेतिनिरुक्तअध्याय ।।१।१० तद्यत्रोभे भावप्रधाने इतिसूत्रम् तदर्थश्च यत्र वाक्ये उभे नामाख्याते स्तस्तत्र भावप्रधाने भवत इति ।
पचति भवतीति भाष्यस्य पाको भवतीति । प्रथमान्तकर्तृवाचकपदसत्त्वे प्रायः प्रथमान्तार्थमुख्यविशेष्यक एव बोधो नैयायिकानामपि, प्रायः पदोपादानेन पश्य मृगो घावतीतिभाष्यसिद्धकवाक्यतानुरोधेन च कचित् क्रियाविशेष्यकोऽपि शाब्दबोधः। कर्मतासम्बन्धेन तिङर्थभावनाप्रकारकवोधे धातुजन्यभावनोपस्थितिः कारणम् इति कार्यकारणभावात् ।
__नच गौरवानुसन्धानम् ? भाष्यसिद्धैकवाक्यताऽनुरोधेन धात्वर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितिः कारणमिति साम्यमेवेति व्याख्यानात् । परन्तु वैयाकरणमते देवदत्तः पचति भवतीत्येकवाक्यतानुरोधेन प्रथमान्तार्थकत्तृ कारकबोधे तिकुर्थभावनोपस्थितिः कारणम् । प्रथमान्तार्थकत्त विशिष्टा पाककृतिवत्त मानभावनाss. श्रयिकेति शाब्द इति नैकवाक्यत्वानिः । एवञ्चकवाक्यता या पदैकवाक्यता सा शाब्दिकतार्किकमतद्वयेऽपि सिद्धयतीति ।
भावार्थकाख्यातस्थले तु भावनाया एव विशेष्यत्वम् , तथैव प्रतीतेः। लटत्वेन कालार्थकलिङनुवादक एव संख्या नाख्यातार्थोऽन्वयाऽप्रतीतेः । साधुत्वार्थमेकवचनमेवैकवचनमुत्सर्गतः करिष्यत इति "येकयो"रितिभाष्यात् ।