________________
२५२
व्युत्पत्तिवादः व्यक्तश्शक्यतावच्छेदकत्त्वे मैत्रः पचतीति बाक्यस्याऽप्रामाण्यप्रसंगात् । नच सकलाश्रयनिष्ठाश्रयत्वं लाघवादेकमेवेति वाच्यम् ? अधिकरणपदार्थस्य सखण्डत्वेन समवायसम्बन्धावच्छिन्न त्वनिवेशाऽसम्भवेन कालिकसम्बन्धेन पाकस्य काले सत्त्वेन का. ल: पवतोति वाक्यप्रामाण्यापत्तेः । किञ्च समवायसम्बन्धावच्छिन्नत्वनिवेशेऽपि शाब्दिकमते आश्रयस्वस्येक्येन समवायसम्बन्धावच्छिन्नाश्रयतायाः कालिकसम्ब. न्धावच्छिन्नाश्रयतायाश्च अभेदात्पाकनिरूपिताश्रयत्वस्य काले सत्त्वेन तादृशप्रयोगापत्तेस्सौष्ठवाच्च । किञ्च सकलाश्रयनिष्ठाश्रयत्त्वस्यैकत्वे समवायेन वह्नयाश्रयत्ववान् वयवयव इतिवत् संयोगेन वह्नयाश्रयत्ववान् बयवयव इति प्रयोगापत्तः । किञ्च संयोगेन वहथधिकरणतावान्पर्वत इत्यत्र तृतीयान्तार्थसयोगावच्छिन्नत्वस्यान्वयभङ्गप्रसङ्गः अधिकरणत्वस्याखण्डत्वेन शाब्दिकनये सम्बन्धावच्छिन्नत्वात् । नच संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नाधेयतानिरूपकत्वविशिष्टाधिकरणतावावच्छिन्नाधिकरणत्वस्य वह्नयवयवे विरहान्न पूर्वदोष इति वाच्यम् ? तादृशाधिकरणतात्वावच्छिन्नाधिकरणत्वस्य पुनरप्यधिकरणत्वाऽभिन्नतया तत्र नास्तीति कथनस्य सर्वथैवाशक्यत्वात् । किञ्च विशिष्ट सत्तानिष्ठाऽधेयत्त्वत्य शुद्धसत्तानिष्ठाऽधेयत्त्वस्य चानतिरिक्तत्वपक्षे समवायसम्बन्धावच्छिन्नविशिष्ट सत्तानिष्ठाधयतानिरूपकाधिकरणत्वस्य गुणादौ सत्त्वेन समवायेन विशिष्ट सत्ताधिकरणत्ववान् गुण इति प्रतीतेदुवारत्वात् । नैयायिकमते तु अधिरणतया नानात्वात्समवायसम्बन्धावच्छिन्नगुणकमान्यत्वविशिष्टसत्तात्वावच्छिन्ननिरूपकतानिरूपिताधिकरणत्त्वस्य तत्राऽभावात्पूर्वोक्तप्रतीतेरसम्भवात् । नचाश्रयत्वस्य नानात्वेऽपि समवायस्यैक्येन समवायसम्बन्धार्वाक्छन्नाधिकरणताया ऐक्यात्ताहशाधिकरणत्वमेव शक्यतावच्छेदकमस्तु काले समवायेन व्यापारत्यासत्त्वेन कालः पचतीति पूर्वदोषो नास्तीति वाच्यम् ? सम्बन्धैक्येनाधिकरणत्वस्यैकत्वस्वीकारे जलनिष्ठसमवायसम्बन्धावच्छिन्ननिरूपकताधिकरणतातो वह्नित्वावावच्छिन्नसमवायसम्बन्धावच्छिन्ननिरूपकताधिकरणत्वस्याभिन्नतया समवायेन वहृयाधिकरणतावजजलं समवायेन जलत्वाधिकरणतावाँश्च पर्वत इत्यादिप्रतीतेरनिवायत्वात् । नच समवायसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नाधिकरणतात्वावच्छिन्नस्वरूपसम्बन्धावच्छि. न्नाधिकरणत्वस्य जले बाधान्नापत्तिरिति वाच्यम् ? स्वरूपसम्बन्धावच्छिन्नाधिकरण. त्वस्यानेकत्वाभावेन जले सत्वात् । किञ्च पर्वतीयरूपस्य समवायेन पर्वते सत्त्वेन समवायेन पर्वतीयरूपाधिकरणत्ववान्पर्वत इति प्रतीतिसत्नात् समवायेन बढ्यधिकरण त्ववान् पर्वत इति प्रतीतेश्च निराकर्तुमशक्यत्वात् । तथा च आश्रयत्वम्भिन्नम्भिन्नमिति कालः पचतीत्यापत्तेस्तादवस्थ्यात् कृतावेव शक्तिर्नतु कर्तरीति ।
किञ्च"लः कर्मणी" तिसूत्रं "कर्तरि कृदि" तिसूत्रादाकृष्टं कर्तरीति कृतिवि. शिष्टसामान्य लकाराणामर्थम्बोधयति । कृत्याश्रये शक्तिनतु आश्रये, कृतित्त्वजारेव शक्यतावच्छेदकतावच्छेदकत्वेन लाघवात् ।