________________
शास्त्रार्थकलोपस्कृतः ।।
ग्रामाऽभिन्नकर्मनिष्ठो यस्संयोगस्तदनुकूलो व्यापार इति शाब्दिकाः। आर्थिकास्तु ग्रामाऽभिन्नकर्मनिष्ठसयोगानुकूलगमनरूपव्यापाराश्रयश्चैत्रः कृत्याश्रयश्चैत्र इति वा । अत्र लकारार्थप्रसङ्गात् लः कर्मणि मार्तण्डस क्षेपःकृतावेव लकाराणां शक्तिशेया मनीषिभिः । शाब्दिकानां निकाये तु गौरवन्दृश्यतेऽधिकम् १ ॥
आख्यातस्य कृतौ शक्तिर्नतु कर्तृरि, कत्त त्वञ्च कृत्याश्रयत्वमेव, तच्च कृ तिरूपमि, त्यनन्तपाकानुकूला कृतिगर्मनानुकुलाकृतिः पाठानकूला कृतिरित्यादिकृतीनों शक्यता. वच्छेदकत्वे गौरवमपरिमितमेव । नच "कर्तरि कृदिति" सूत्राच्चकारबलेनानुकृष्टं कत रीति पदं स्वदेशे कत्त रूपार्थकम् अन्यत्र "लः कर्मणी" तिसूत्रे कृतिरूपार्थबोधकत्ववैषम्ये शब्दार्थमर्यादाभङ्ग इति । किञ्च कृधातोः कर्तरि तृचि कृते कर्त्त शब्दो निष्पद्यते तस्य कृतिरूपार्थकत्वे प्रामाणविरहश्चेति वाच्यम्, शब्दमात्रमनुवार्थस्वेच्छक्रियत इत्यर्थकशब्दाधिकारमाश्रित्य कत्त पदे भावे तृच "कृत्यल्युटो बहुल" मित्यत्र बहुलग्रहणं कृन्मात्रस्यार्थव्यभिचारार्थमित्युक्तेः । तया च भावे तृचि करणकृतिकन्र्तृपदानां समानार्थकत्वे कृतौ शक्तिस्वीकारे लाघवाधिक्यात् । कर्तृत्वस्य कृतिरूपत्वमभिधीयते कैश्चित्, तत्तच्छम् १ कर्ता व्यापाराश्रयः, स्वप्रत्ययार्थो भावः, करणं कृति. यत्नविशेषः, तृजर्थस्त्वप्रत्यये कापहृतो भवेत् १ तस्माद् भावे तृजिति मदुक्त एव प्रकारो ज्यायान् । किञ्च वैयाकरणमते आश्रयत्वविशिष्टावच्छिन्नवाचकताज्ञानाश्रयत्वत्वावच्छिन्नाश्रयत्वप्रकारकोपस्थित्योः कार्यकारणभावे गौरवम्, शक्यतावच्छेदकत. योस्सखण्डत्वात् । एवं भिन्नविषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वमिति नियमानुरोधेन शाब्दसामग्रीघटकाश्रयत्वप्रकारकोपस्थितेः आश्रयत्वप्र. , कारतानिरूपितविशेष्यत्वावच्छिन्नाश्रयत्वप्रकारताकोपस्थितित्वेन, एवम्बिशेष्यतानिरूपितप्रकारत्वावच्छिन्नाश्रयत्वनिष्ठविशेष्यतानिरूपिताश्रयत्वप्रकारकोपस्थितित्वेन इति विनिगमकाऽभावेन प्रतिबन्धकताधिक्यम् अवच्छेदकगौरवञ्चेति । । कृतिशक्तिवादिनान्तु तण्डुलम्पचतीति वाक्यजन्यशाब्दबुद्धित्त्वावच्छिन्नम्प्रति "ति" पदं कृतिविषयकबोधजनकत्त्वप्रकारकभगवदिच्छीयविषयतावदित्याकारकशक्ति. ज्ञानजन्यकृतित्वप्रकारकोपस्थितित्वेन कारणता । तत्र कृतिविषयकोपस्थितिशक्तिशानयोः कार्यकारणभावे लाघवम् । कृतित्वजातेश्शक्यतावच्छेदकत्त्वात् । एवं भिन्नविषयकप्रत्यक्षत्त्वावच्छिन्नम्प्रत्यपि शाब्दसामग्रयाः प्रतिबन्धकतया ( कृतित्त्वप्रकारकोप स्थितित्त्वेन ) लघुघमेण च प्रतिबन्धकत्त्वाच्च लाघवमिति । नच वैयाकर. • णानाम्मते आश्रयत्वस्याखण्डोपाधिरूपतयाऽनिर्वचनीयत्त्वेन स्वरूपतो भानस्वीकारान्न शक्यतावच्छेदकता गरीयसी नापि विनिगमनाऽभावेन प्रतिबन्धकताधिक्यम् अवच्छेदकगौरवश्चेति वाच्यम् ? तत्तदाश्रयभेदेनाश्रयत्वस्य भिन्नत्त्वादन्यथा चैत्रनिष्ठाश्रयत्त्व