________________
२५०
व्युत्पत्तिवादः पाकत्व १९ पाक २० समवाय २१ कर्तृत्त्व २२ वर्तमानकालाः २३ देवदत्तस्य कर्तर्य भेद आकाङ्क्षाभास्यः २४ । यद्यपि द्वितीयाविभक्तस्तिबिभक्तेश्चैकत्त्वसंख्याविवशायामेव विधानात्तयोरपि भानं योग्यन्तथाऽपि द्वौ ब्राह्मणौ ब्यतिलुनीत इतिवत् तयोर्विभक्त्योद्योतकत्वेन न संख्यारूपार्थ इतिसंख्यार्थविचारावसरे विस्तरेण प्रतिपादितत्त्वात् । केवलदेवदत्तशब्दोत्तरसोरेवैकत्वमर्थ इति चतुर्विंशतिः पदार्थाः ।
विशेषप्रबन्धात्तु. तण्डुलपदार्थस्य स्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन अमश्रियेऽन्वयः, आश्रयपदार्थस्य च स्वनिष्ठाऽधारतानिरूपिताऽधेयतासम्बन्धेन फलेsन्वयः, फलस्य च स्वनिष्ठजन्यतानिरूपितजनकतासम्बन्धेन कृतावन्वयः, कृतिपदार्थस्य च स्वनिष्ठाऽधेयतानिरूपिताऽधारतासम्बन्धेन प्रथमान्तदेवदत्तादिपदोपस्थाप्येऽन्वयः, आख्यातार्थसंख्यायाश्चाऽभावात्प्रथमान्तपदोत्तरसोरेकत्वसंख्यायाश्च स्वनिष्ठपरिच्छेदक तानिरूपितपरिच्छेद्यतासम्बन्धेन समवायसम्बन्धेन वा प्रथमान्तपदोपस्थाप्येऽन्वयः । तण्डुलनिष्ठ कर्मतानिरूपकविक्लित्त्यनुकूलव्यापारजनककृत्त्याश्रयैकत्वविशिष्टो देवदत्त इति सामान्यप्रकारः । निष्ठत्वसम्बन्धावच्छिन्ना या तण्डुलत्वनिष्ठा निरवच्छिीन्नाऽत्रच्छेदकता तादृशावच्छेदकतानिरूपिता या स्वरूपसम्बन्धावच्छिन्ना तण्डुलनिष्ठावच्छे. द्यता तादृशावच्छेद्यतावती या प्रकारता तादृशप्रकारतानिरूपिता या कर्मत्वनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा तादृशविशेष्यत्वावच्छिन्ना तादृशविशेष्य. स्वाऽभिन्ना वा या निरूपकत्वसम्बन्धावच्छिन्ना कर्मत्वावच्छिन्ना कर्मत्वनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या विक्लित्तित्वावच्छिन्ना विक्लित्तिनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा याऽनुकूलत्वसम्बन्धावच्छिन्नविक्लित्तित्त्वावच्छिन्ना विक्लित्तिनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता परिच्छिन्नत्त्वसम्बन्धावच्छिन्ना वर्तमानकालत्वावच्छिन्ना वर्तमानकालनिष्ठप्रकारतानिरूपिता या धात्वर्थप्रकारतावच्छिन्ना धात्वर्थयापारनिष्ठा विशेष्यता तादृशविशेष्यतासामानाधिकरणा या जनकत्वसम्बन्धावच्छिन्ना व्यापारत्वावच्छिन्ना व्यापारनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या लकारार्थकृतित्वावच्छिन्ना लकारार्थकृतिनिष्ठा विशेष्यता तादृशविशेष्यत्वाऽ. भिन्ना तादृश विशेष्यतासामानधिकरणा तादृशविशेष्यत्वावच्छिन्ना वा या आश्रयत्व. सम्बन्धावच्छिन्ना लकारार्थकृतित्वावच्छिन्ना कृतिनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या समवायसम्बन्धावच्छिन्ना पुंस्त्वत्वनिष्ठप्रकारतानिरूपिता या स्वरूपसम्ब. न्धावच्छिन्ना पुंस्त्वनिष्ठविशेष्यतासामानाधिकरणप्रकारतानिरूपिता तथा समवायसम्बन्धावच्छिन्नस्वनिष्ठपरिच्छेदकतानिरूपितपरिच्छेद्यतावत्त्वसम्बन्धावच्छिन्ना अथवा परिच्छिन्नत्वसम्बन्धावच्छिन्नैकत्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपिता या समवायसम्बन्धावन्छिन्ना देवदत्तत्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावती स्व. रूपसम्बन्धावच्छिन्ना देवदत्तनिष्ठा विशेष्यता तादृशविशेष्यताशालिशाब्दबोधः ।
चैत्रो ग्रामङ्गच्छतोति---एकत्वावच्छिन्नचैत्राऽभिन्नकर्तृको वर्तमानकालिको