________________
शास्त्रार्थकलोपस्कृतः
२४९ यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षत" इति यस्य विकृतिकर्मणो नाश्रीयते न प्रयुज्यत इत्यर्थः 1 एवं च तत्र तत्रौदनादेर्विकार्यकर्मण्येवान्तर्भावः। तदुक्तम् "क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते। तन्नित्यं विकायं तु कर्म द्वेधा व्यवस्थितम् ।। प्रकृत्युच्छेदसम्भूतं किश्चित्काष्ठादि भस्मवत । किंचिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारचदिति" || अत्र प्रकृतिरपि ग्राह्या । अन्यथा काष्ठसुवर्णादेस्तुरोयतापत्तेः। विकार्यपदेनकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेऽपि उभयसाधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम प्रकृतिरूपं कर्म च क्रियया वस्त्वन्तरनिष्पत्तये पूर्व भाववशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तत्, यथा पाकादेः तण्डुलादि, कृतेश्च पुष्पकाशादि । तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टं तदसत्त्वमोदनादिरूपकर्मान्तर. निष्पादकम् । इतरत्र धर्मिणः काशकुसुमादेः सत्त्वेऽपि कटसन्दर्भादिविर. हरूपपूर्वभावासत्वेन द्विशिष्टस्यासत्वं कटसन्दर्भादिनिष्पादकक्रियातो निवहति । ___ एवं च तण्डुलानोदनं पचतीत्यादौ प्रकृतिकोत्तरद्वितीयाया नाशकत्वमथस्तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्च उत्पादकत्वमर्थः । ओदनान्वितस्य तस्य नाशकत्व विशिष्टे पाकेऽन्वयः ।
कियाकृतविशेषाणामिति ।
नच ग्रामं गच्छतीत्यादौ ग्रामदावपि गमनादिकृतसंयोगविशेषोऽस्त्येवेत्युक्तलक्षणेऽव्याप्तिरिति वाच्यम् ? नियाकृतविशेषाणामित्यत्र क्रियाकृतविशेषपदेनोत्पत्तिविकारयोरेव ग्रहणात् । एवञ्चोत्पत्तिविकारभिन्नं यत्फ़लन्तेन संसृष्टं यत्कर्म तत्प्राप्य. मिति फलितार्थः । नाशकत्वमर्थ इति ।
__ केचित्तु पचधातोरुत्पत्तरूपोऽर्थः विक्लित्तिरूपार्थश्च । तण्डुलपदार्थस्याधेयत्वसम्बन्धेन विक्लित्तावन्वयः । तण्डुलविक्लेदिका ओदनोत्पादिका क्रियेतिबोधः । अत्र "द्वयर्थः पचि"रिति पातञ्जलभाष्यमनुकूलम् ।
अत्र प्रसङ्गात्तण्डुलम्पचतीत्यस्य शाब्दबोधप्रकारः । अत्र षट् पदानि सन्ति १ देवदत्त २ सु, ३ तण्डुल ४ अम् ५ पच् ६ तिप, शक्तम्पदमिति व्याप्तेः । पदार्थाश्चेयन्ता देवदत्तत्व १ देवदत्त २ समवाय ३ पुंस्त्वत्व ४ पुंस्त्व ५ समवाय ६ स्वर्थेकत्वत्व ७ एकत्त्व ८ समवाय ९ तण्डुलत्व १० तण्डुल ११ समवाय १२ पुंस्त्वत्व १३ पुंस्त्व १४ समवाय १५ कर्मत्व१६ कर्म १७ समवाय