________________
२४८
व्युत्पत्तिवादः ।
बा ! हंस इवाचरति हंसायते हंसतीत्यादावुपमानवाचिकर्तृवाचकपदोत्तरविहितक्यङन्तक्वि बन्तधातुरप्य कर्मकस्तत्र इंसादिकर्तृ काचारतुल्याचारस्य गमनादिरूपस्य क्यङन्ताद्यर्थत्वेऽपि गम्यादिप्रतिपाद्यतावच्छेदक संयोगादिरूपफलानवच्छिन्नस्यैव तदर्थस्त्रोपगमात् । शब्दज्ञानादिरूपसविषयकव्यापारात्मकस्याचारस्य क्वचित्तदर्थत्वेऽपि विषयरूपकर्माविरुद्धस्यैव तस्य तदर्थत्वोपगमात् । कर्मावरुद्धस्य च कर्मान्वयनिराकाङ्क्षत्वादिकं स्वय मूह्यम् । कृत्यर्थकधातुयोग इष्टसाधनत्वादिज्ञानविशेष्यताप्रयोज्य साध्यताख्यविषयताविशेष एव कर्मत्वं द्वितीयादेरर्थः, न तु विषयतामात्रम् । यत्र घटं करोतीति प्रयुज्यते तत्र कपालं करोति, जलाहरणं करोतीत्याद्यप्रयोगात् । अथ काशान् कटं करोति, काष्ठ भस्म करोतीत्यत्र काशकाष्ठादिपदोन्तरद्वित्तीयानुपपत्तिः तत्र कृतिनिरूपितोक्तविषयताविरहादिति चेद् ? उपादानोयविलक्षण विषयतापि द्वितीयार्थः । सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयताविशिष्टायामेव कृतावन्वेति । अतः कटादिरूपकर्मान्तरासमभिव्याहारेण काशान् करोतीत्यादयो न प्रयोगाः । अथैवमपि काष्ठं भस्म करोति. दुग्धं दधि करोतीत्यादौ काष्टदुग्धादेः कर्मत्वानुपपत्तिः । तस्य भस्मदध्याद्युपादानताविरहात् । काष्ठदुग्धादिनाशानन्तरमेव तदारम्भादुत्पत्त्याश्रयस्यैवोपादानत्वात् । विभिन्न कालीनयोश्चाधाराधेयभावविरहात् कारणस्यै वोपादानत्वमिति नियमाच्च । न च परिणामवादविद्वेषिणां नैयायिकानां नकाष्ठादेर्भस्मादिरूपद्रव्यान्तर कारणत्वमपि तु प्रतिबन्धकत्वमेव, द्रव्यवति द्रव्यान्तरानुत्पत्त रिति चेन्न ? कर्म हि त्रिविधं भवति । प्राप्यं कर्म क्रियाजन्यफलशालि क्रियाविषयश्च गम्यादेर्यामादि, ज्ञानादेर्विषयश्च । क्रियानिपाद्यं यत्तद्विकृतिरूपम् | यथा पाकादेरोदनादि यथा वा कृतेर्माल्यादि, कटादि च । प्रथमे तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदनादर्निर्वर्तनम् । द्वितीये पुष्पादिरूपपूर्व द्रव्यमविनाश्यैव सन्दर्भादिरूपविशेषणनिष्पादनेन विशिष्टस्य माल्यादेर्निर्वर्तनम् । तृतीये च काशादिरूप पूर्वधर्मिणलविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनं क्रियया । ईदृशं च प्रकृतेरसमभिव्याहारस्थलेsपि निर्वत्र्यमुच्यते । तण्डुलानोदनं पचति, कुसुमानि स्रजं करोति, काशान् कटं करोतीत्यादौ प्रकृतिसमभिव्याहारस्थले निर्वर्त्यते निष्पाद्यते यदिति व्युत्पत्त्या यद्यप्योदनादेरपि निर्वर्त्यतास्ति तथापि तद्वयावृत्तमेव पारिभाषिकं निर्वत्र्यत्वम् ।
तदुक्तमभियुक्तैः "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी ।
९
"