________________
शास्त्रार्थ कलोपस्कृतः ।
कार्या । कार्या ।
नपदस्य
बोध्यम् ।
२४७
यथाश्रुते दर्शितानुपपत्त रिति
कन्तु : सुबन्तादित्येव योजना ध्येयम् ।
भृत्यं पुत्रीयसीत्यादावाचारार्थ विहितक्यजन्तस्य सकर्मत्वं युज्यत एव । तथाहि । तमिवाचरतीत्यर्थे उपमानवाचिनः क्यच् विहितः तमिवाचरतीत्यस्य तत्तुल्यं जानातीत्यर्थः । आचारपदस्थ व्यवहारमूलज्ञानपरत्वात् । तुल्यतया ज्ञानं च क्यजर्थः । तच्च सकर्मकमेव | तन्त्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः पुत्रादिपदमेव वा गौण्या पुत्रादितुल्यपरम् | ज्ञानमात्रं क्यजथैस्तत्र च स्वाभेदावगाहित्वसम्बन्धेन पुत्रादितुल्य
स्यान्चयः ।
न चैवं पुत्रादिपदमुपमेयार्थकमेव नतूपमानार्थकमिति कथमुपमानादाचार इत्यनेन तदुत्तरं क्यचो विधानं सङ्गच्छत इति वाच्यम् ? पुत्रादिपदस्य तुल्यार्थकत्वेऽपि तुल्यत्वप्रतियोगितयोपमान पुत्राद्यर्थ कत्वात् । अत एव तस्य कर्मैवाचकत्वं पुत्रादितुल्यत्वात् सम्यगुपपद्यते । पूर्वमते उपमाकर्मवाचकत्वं आचारकमेविशेषणतुल्यताप्रतियोगिबोधकत्वरूपं
वस्तुतः पुत्रमिवाचरतोत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतोत्येवार्थः । व्यवहारश्च प्रतिपाल्यत्वादिना ज्ञानं प्रतिपालनादिरूपो व्यापारो बा । एवं च पुत्रायतीत्यस्य पुत्रकर्मकव्यवहारकर्तेत्यर्थः । मुखचन्द्रादेर्यथा स्वजन्याह्लादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यत्तया स इति पुत्रपदस्योपमानवाचिता । आचारनिष्टसाहश्यप्रतियोग्याचारकर्मवाचिता च । आचारसदृशाचार एव क्यचोऽर्थः । प्रथमाचारे कर्मतासम्बन्धेन पुत्रादेरन्वयः । अमाद्यन्तात् क्यच्प्रत्ययविधानेऽपि धात्ववयवतया लुप्तस्यामादेर्नियमेनानुपस्थितेः कर्मत्वस्य सम्बन्धतया भानमुपेयते । यथा राजपुरुष इत्यादिसमासरूपप्रातिपदिकावयचतया लुप्तषष्ठयादिप्रतिसन्धानानियमाद्विभक्तयन्तार्थविशिष्टे पूर्वपदलक्षणोपेयते । द्वितीये आचारे भृत्त्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति कुटयां प्रासादीयतोत्यादावाधाररूपे । पमानवाचि सप्तम्यन्तोत्तर विहितक्यजन्तस्य न सकर्मकता, तत्र च प्रासादाधिकरणकाचारः क्यजन्तार्थः स चावस्थान रूप एवेत्यकर्मक इति कुट यास्तत्राधिकरणतथा ततः सप्तम्येव । अवस्थानयोः साम्यं चैकजातीय सुखजनकत्वादिनाऽविशेषज्ञानविषयत्वेन
ननु पुत्रशब्दस्य पुत्रतुल्यार्थकत्वेनोपमेयत्वमेव उपमेयत्वञ्चात्र तुल्यत्त्वाश्रयत्वमेव. च क्यच् न स्यादित्याह शङ्काम् नचैवमिति ।