________________
२४६
व्युत्पत्तिवादः वस्तुतः सम्बन्धविवक्षयापि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदेशेन षष्ठ्यर्थान्वये प्रतियोगिपदादन्यद्यदन्यत्कारकादपोतिव्युत्प-- त्तिविरोध इति वाच्यम् ? ताहशव्युत्पत्तेरभेदान्वयस्थल एव स्वीकारात् । वृत्त्येकदेशेन भेदान्वये बाधकाभावात्। अत एव ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगो नेष्यते । इष्यते च पितुः स्वर्गकाम इत्यादिप्रयोगः । न च कारकपदप्रतियोगिपदयोर्भेदनिवेशनमफलमिति वाच्यम् ? तन्निवेशस्य दृष्टान्तविधयोक्तस्वात। यथा प्रतियोगिपदार्थस्य कुत्रापि अभेदान्वयो न भवति तथा वृत्त्येकदेशेनान्यपदार्थस्येत्यर्थ तात्पर्यादिति ध्येयम् ।
अभेदविवक्षायां पण्क्तिं पुत्रीयति प्रवोरं पुत्रकाम्यतीत्यादिप्रयोगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि पुत्रीयतीत्यादयो न प्रयोगाः । सुप आत्मनः क्यजित्यादिना इच्छाकर्तृ सम्बन्धि यदिच्छाकर्म तद्वोधकसुबन्तात् क्यचकाम्यचोर्विधानात् । सम्बन्धित्वं च सम्बन्धित्वेन भातस्वम् । अन्यथा यस्येच्छाकत: पुत्रोऽसिद्धस्तस्यापि स्वीयत्वेन पुत्रेच्छादशायां पुत्रीयतीत्यादिप्रयोगस्य सर्वसिद्धस्यानुपपत्तः ।
सक्तस्थले पुत्रोयतीयादिवाक्यस्य प्रामाण्यवारणाय च क्यजाद्यर्थेच्छायां पुत्रादेर्विषयित्वमात्रं न सम्बन्धः, किन्तु स्वांशे भासमानसम्बन्धस्य प्रतियोगितया यो यो विषयस्तादृशपुरुषवृत्तित्वहितमित्युऐयम् । __ स्वसम्बन्धस्य क्यजाद्यवाच्यत्वेऽप्युक्तसम्बन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्शनायव सूत्र आत्मन इत्युपातम् । आत्मन इति षष्ठयर्थसम्बन्धश्च न धातोः कर्मण इत्यादिसूत्रानुवृत्तायामिच्छायामन्वेति, अव्यावर्तकत्वादुक्तार्थलाभाप्रयोजनकत्वात , अपितु सुप । इत्यर्थे सुधन्तादित्यत्र सचेन्छाक : सम्बन्धितयेच्छादिषयार्थकत्वम् एवं च इच्छाकर्मणः सुबन्तादिच्छाकत्त रिछायामिति वृत्तावपीछा.
कर्मतयेति-पूर्वोक्तातिदैशिककर्मतयेत्याशयः। यदन्यत् कारकादीति-वृत्तिशब्दैकदेशार्थेन तस्यान्वय इष्यते इति पाठपूर्तिः।।
पूर्वोक्तव्युत्पत्तिविरोधात् पण्डिताऽमिन्नपुत्रविषयकेच्छावानिति तात्पर्य पण्डितमपुत्रीयतीति प्रयोगो न भवतीति आह अभेदांववक्षायामिति ।
स्वांश इत्यादीतिचैत्रो मम पुत्रो भवत्वितीच्या चैत्रः पुत्रीयतीति भवति प्रयोगः ।
सहितमिति-अत्र क्लोबत्वन्न युक्तम् । विषयत्वमिति-इच्छाकर्तृसम्बन्धि यत् इच्छाया : कर्म तद्बोधकसुबन्तात् क्यजितिसूत्रार्थः ।