________________
शास्त्रार्थकलोपस्कृतः।
२४५ मादाय दर्शितस्थलेऽतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपपदार्थानामनुगमेन व्युत्पत्त्यनुपपत्तिः।
न च समानकतकरवस्य सम्बन्धत्वोपगमे तत्र शक्तिप्राहकानुशासनविरोधः। यतो धातोः कर्मणः समानकर्तृकादिच्छायां वेति सन्प्रत्यय. विधायकसूत्रं सनः समानकतृ कस्वार्थका न प्रतिपादयति । तस्य होच्छाकर्मत्वेन तत्समानकतृत्वेन च स्वार्थपराद्धातोरिच्छारूपार्थे सन् भवतोत्येवाथः। इच्छाधात्वथेयोः संसर्गतया समानक कत्वविवक्षायामपि समानक कस्तोपरक्तार्थपरत्वं धातोर्निछहतोति, इच्छामात्रे शक्तिप्राहक तत्सूत्रभिति। सुबन्तोत्तरेच्छार्थविहितक्यचकाम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्तविशेषेऽपि सन्नन्तधातुवन्न सकर्मकता। तदन्तर्गत. प्रातिपदिकम्यैव कर्मबोधकतयेच्छाया: कर्माकाङ्काविरहात् । न च पुत्रीयति पुत्रकाम्यतीत्यादौ क्यजादिप्रकृत्यथपुत्रादेः क्रियात्वाभावेनाकर्मकत्वेऽपि आत्मनः पाकमिच्छति पाकीयतीत्यादौ प्रकृत्यपाकादेः सकर्मकतया सन्नन्तसमुदायवत क्यजन्तपाकादिसमुदायस्य सकर्मकतया दुारतया तण्डुलं पाकोयतोत्यादिप्रयोगापत्तिरिति वाच्यम् ? कृधातुसमानाथयतेरिव सन्नन्तसमानार्थकस्य क्यजन्तादेरपि कमेताबोधकसुप्साकाङ्कत्वानुपगमेन तथा प्रयोगाप्रसङ्गात् ।
कृदन्तकर्मत्वविवक्षायां तु षष्ठ्या बाधात् द्वितीयाया अप्रसक्तेश्च । धात्वयत्रकृयोगकर्तृ कर्मणोः कृतोत्यस्य द्वितीयाबाधकत्वे कंसकर्मकवधमाचष्टे कंसं घातयतीत्यत्र द्वित्तीया न स्यात् । कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थनादिति वाच्यम् ?
कृदन्तोत्तरं यत्राख्यानार्थे णिच् तत्र प्रकृतिवञ्च कारकमित्यनेन कृदन्तकारकस्य ण्यन्ततत्प्रकृतिप्रतिपाद्यक्रियाकारकतुल्यत्वातिदेशाद्राजानं गमयति सूर्यमुद्गम्यतीत्यादौ ण्यन्तधातुयोगे यथा प्रकृत्य क्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिचप्रयोगेऽपीत्याख्येयगत्युद्गत्यादिकत: कर्मतया तदुत्तरं द्वितीयेति ण्यन्तधातुयोगे यथा प्रकृतेः कर्मणो द्वितोयान्तता तथा णिच प्रत्ययान्तकृदन्तकर्मणोऽपोति लाभात् कृदन्तकर्मणः कंसादेद्वितीयोपपत्तिः। तथा विषक्षायां तण्डुलस्य पाकीयतीति प्रयोग इष्यत एव। कारकविभक्त्यर्थस्य कृत्येकदेशेनाप्यन्वयस्य व्युत्पन्नत्वात् । सम्बत न्धविवक्षायां च न तथा प्रयोगः।
व्युत्पत्त्यनुपपत्तिमिति-शक्तिग्रहानुपपत्तिरित्यर्थः । कृदन्तकर्मवविवक्षायामिति-प्रक्रतिवञ्च कारकमिन्यनेनेति । 'आख्यानात्कृतस्तदाचष्टे कुल्लुक प्रकृतिप्र. त्यापत्तिः प्रकृतिवच कारकमि" तिव्याकरणानुशासनेनेत्यभिप्रायः।