________________
व्युत्पत्तिवादः
त्वावच्छिन्नाभावयोस्तदा पाकेऽसत्त्वात् । न च वर्त्तमान कालावच्छिन्नकृतिविषयत्वत्वावच्छिन्नाभाव एव तत्र प्रतीयते, स पाके वाधित इति वाच्यम् ? यद्यतीतेच्छाघोनपाककृतिरपि तत्र वर्त्तते तदा तादृशाभावस्यापि तत्र बाधात् पाककृतीच्छायामसत्यामुक्तेच्छासन्त्वेऽपि च तथा प्रयोगात् । कृत्यसत्त्वेऽपि पाककृतीच्छासत्वे तथा प्रयोगविरहात् । क्रतिविषयत्वाभाव मात्रबोधस्य तत्राभ्युपगमासम्भवाच्चेति । कमप्रत्ययस्थले इच्छा धात्वर्थविशेषणमेव ।
इदन्तु तत्त्वम् । कर्मप्रत्ययस्थलेऽपि धात्वर्थविशेषितैवेच्छा सन्प्रत्ययेन प्रत्यायते । तत्कर्मत्वमेव कर्माख्यातार्थः । तच्च धात्वर्थ कर्म तया तद्विषयत्वम् ? ओदनकर्मकभोजनं भवतु, पाकविषयक कृतिर्भवतु इत्या दोच्छायां च पाकभोजनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थित्यादीच्छायां गृहादेः स्थित्याधारत्यादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिक मेत्वम् । अत एव यदोदनव्यक्तिकर्मक भोजनमप्रसिद्धम्, च भोजनकतया तदिष्टं तत्रायमोदनो बुभुक्ष्यत इत्यादेर्दर्शनादि. विषयत्वेन गगनादिगोचरेच्छास्थले च गगनं दिदृक्षते इत्यादेश्व प्रयोगस्य नानुपपतिः । न वा ओदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादोच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र विषं बुभुक्ष्यते इत्यादयः प्रयोगाः ।
अथ
कर्तृप्रत्ययस्थलेऽपि च तादृशविषयतारूपं कर्मत्वमेव इच्छाविशेषणतया भासते न तु धास्वर्थ कर्मस्वम् । धात्वर्थविशेषणतया तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरूपितविषयिताया नियमत इच्छायां भानोपगमेनोक्तस्थले विषं बुभक्ष्यते चैत्र इत्यादिप्रयोग वारणेऽपि गगनं दिदृक्षते. चैत्र इत्यादिप्रयोगस्य दुरुपपादत्वात् । इदन्तु बोध्यम् । सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासम्बन्धेन न विशेषणत्वम् | तथा सति परकर्तृककृतिभोजनाद्गोचरेच्छावति अयं चिकोपति बुभुक्षत इति प्रयोगप्रसङ्गात्, किन्तु विशेष्यतासमानकर्तृत्वोभयसम्बन्धेनैव उक्तातिप्रसङ्गवारणाय इच्छासमानकर्तृकत्वेऽपि सन्प्रत्ययवाच्यतां स्वीकृत्य क्रियायां तदन्वयोपगमो न साधीयान् । इच्छान्तरसमानकर्तृ कस्त्रहादिति तत्त्वम् । तद्विषयत्वमिति--- इच्छीयधात्वर्थनिष्टविषयतानिरूपितकर्मत्वनिष्ठविषयत्वविशेषरूपमेव कर्मत्वमिति फलति ।
भानोपगमेनेति - ओदन भोजनेच्छया विषकर्मकत्वविशिष्टभोजननिरूपिता विपयिता नास्ति किन्तु विषभोजनेच्छायामेवास्ति । एवञ्च विषम्बुभुक्षत इत्यत्र नाऽपत्तिरिति तत्त्वम् ।
२४४