________________
शास्त्रार्थ कलोपस्कृतः ।
तायाश्च
अथास्तु विषयतारूपकर्मत्वे चिकीर्यते पाक इत्यादाविच्छायास्त-त्परतन्त्रकृतेश्चान्वयः । उभयत्रैव पाकादेविषयत्वात् । स्थित्यादिकर्मत्वाप्रसिद्धया च गृहं तिष्ठास्यते इत्यादेरप्रसङ्गादिति चेत् ? ओदनो बुभुक्ष्यते इत्यादौ का गतिः । तत्रेच्छाकर्मताया विषयतारूपत्वात् । भोजनादिकर्मतदन्यत्वात् । विशेष्योभवदिच्छान्त्रयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन विशिष्टान्वयासम्भवात् । वस्तुतः पार्काश्चिकीर्ष्यत इत्यत्राप्यगतिरेव ? कृतिविशेषणतया पाकनिष्ठेच्छाविषयतायाः कृत्य विशेषणतन्निघ्रकृतिविषयताभिन्नतया इच्छान्वयिनो विषयत्वरूपकर्मत्वस्य कृत्यन्वयायोग्यत्वात् । यदि च विशेष्यान्वमिव्यक्ता वेतत्पारतन्त्र्येण विशेषणान्वय इति इति न नियमः, अपि तु तदन्वयितावच्छेदकावच्छिन्न एवेति । तथा च विषयतात्वावच्छिन्नस्योभयान्वयोग्यत्तया न प्रकृतेऽप्यन्वयानुपपत्तिः ।
तया
गोनिरूपितसाध्यतत्र परम्परया
अत एवारुण येत्यादात्रा रुण्य निरूपितसाध्यताया ताभिन्नत्वेऽपि न तृतीयार्थे विशिष्टान्वयानुपपत्तिः । विशेष्यान्त्रयिसो मक्रयव्यक्त: परम्परया विशेषणान्वयिव्यक्यभेदवत् प्रकृतेऽपि परम्परयो भयान्वयिकर्मव्यक्तयभेदोऽक्षत एवेत्युच्यते तदा भोजनकृतिर्भवतु पाकश्च भवतु इति समूहालम्बनेच्छामादाय पाकञ्चिको • व्यंते इति प्रयोगस्य कालान्तरीयकृतिविषयदामादाय दुर्वारतैव विषयितासम्बन्धेनेच्छाविशेषणो भूतकृतिव्यक्तिकर्मत्वान्वयस्यैव तदिच्छान्व
यिनि
कर्मण्यन्वयान्नायमितिप्रसङ्ग इति चेत्तथापि तदिच्छाकाले पाक इदानीं न चिकीष्यते इति प्रयोगानुपपतिः ।
अन्वयितावच्छेदककृतिविषयतात्व कृतिगोचरवत मानेच्छाविषयता
२४३
इतोऽधिकम्वैयाकरणभूषणसारे • द्रष्टव्यम्, कृतिविशेषणतयेत्यादोति -- विषयत्वसम्बन्धावच्छिन्नपाकनिष्ठप्रकारतानिरूपितकृतिविशेष्यकबोध इति ।
अत एवारुणयेत्यादोति ।
“अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाती" तिश्रुतिः । अत्र साध्यत्वं प्रयोज्यत्वं वा तृतीयार्थः । तस्य सोमकर्मकक्रयणेऽन्वयः । आरुण्य पदार्थस्याऽमूर्त्तत्वेन गोरूपद्रव्यपदार्थद्वारा विशिष्टाऽन्वयमहिम्ना सोमक्रयणेऽन्वयः । एवञ्च आरुण्यादिविशिष्टगोनिरूपितसाध्यतावत्सोमकर्मकक्र यणानुकूला भावनेति । अत्र साध्यता गोनिरूपिता साक्षादेव | आरुण्यनिरूपिता तु साध्यता गोरूपद्रव्यपरिच्छेदद्वारेति । एवम्प्रकृतेप्यन्वयव्यवस्थेति भावः ।
तथा प्रयोगविरहादिति - पाक इदानीन्न चिकीर्ष्यत इत्याकारकप्रयोगविर