________________
२४२
व्युत्पत्तिवादः ।
स्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छायां त्रिशेषणतयोपस्थितस्य धात्वर्थम्य विशेषणतयान्वयायोगात् । विशेष्यतया चान्वयस्याप्रसक्तत्वात् । धात्वर्थविशेषणतया इच्छाभानेऽपि तस्या वर्त्तमानत्वादिविशेष्यतयैव भानेनोक्तन्युत्पत्तिविरोधविरहात् । एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वा सन्ध्येण कर्मताविशेषणत्व मयुक्ततममेव । प्रकृत्यर्थस्यैकदेशेऽपि प्रकृत्यर्थान्तगततया भासमाने एव प्रत्ययार्थान्वयदर्शनात्, न तु स्वातन्त्र्येण भासमान इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोऽपि इच्छायां कर्मत्वानन्वयेन दुर्घटः । विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थळे व्युत्पत्तिसिद्धत्वात् ।
कर्म त्रिविधमिति ।
एको द्वौ ज्ञायत इत्यादावाख्यातम्यारोप्यविशेष्यवाचकपदसमानवचनत्वमत एव एकोऽपि त्रय इव भाति कन्दुकोऽयमिति कवयः । निर्वर्त्यम् विकार्यम् प्राप्यरूचेति भस्मीभवन्ति काष्ठानि काष्ठानि भस्म क्रियन्ते । एको वृक्षः पञ्च नौका भवति । प्रकृतिर्विकृतिवांऽपि यत्राऽस्तित्वन्द्वयोरपि ।
गृह्णाति प्रकृतेस्संख्यां वाचको विकृतेर्नतु ॥
इत्युक्तिः चिवप्रत्ययमात्रविषयिणीति । अत एव
व्याकरणमहाभाष्यीयप
स्पशायां पुनरावृत्तस्सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवत इत्यत्र विकृतिरूपकुण्डलगत द्वित्वसंख्यया क्रियायां द्विवचनत्वम् । तथाच पूर्वोक्तकाष्ठानि भस्मराशिः क्रियन्त इतिप्रयोगो भाष्यरीत्याऽनुपपन्नः ।
अत्र विलक्षणाः
भाष्योक्तमहावाक्ये कुण्डलयोः प्रकृतित्वमेव नतु विकृतित्वम् । खदिराङ्गारसदृशे इतिविशेषणोपादानात् पुनरपरयाऽकृत्या युक्त इतिविशेषणदानेन सुवर्णपिण्डस्य विकृतित्वम् । पुनरावृत्त इतिविशेषणदानेनाऽपि सुवर्णपिण्डस्य विकृतित्वम् । अत एव वाचारम्भणं विकारो नामधेयम्मृत्तिकेत्येव सत्यम् । सुवर्ण एव नित्यः तत्पिण्डादिस्त्वनित्योऽर्थाद्विकृतिरेव तद्विकृतित्वमेव भाष्यकृत्तात्पर्य्यविषय इति ।
वस्तुतस्तु
सुवर्णपिण्डात्कुण्डले निष्पद्येते इतिलोक सिद्धो व्यवहारः प्रत्यक्षीकृतोऽतो विकृतिगतसंख्यैव कुण्डले भवत इतिभगवतोक्ता । तथा च प्रयोगवशेन पर्यायेण कदाचित् कुत्रचित् प्रकृतिगतसंख्यास मानवचनत्वमाख्यातस्य कुत्रचित् विकृतिगत संख्यासमानवचनत्वमाख्यातस्येति शुक्लाः । कर्मण उदाहरणानि घटं करोति काष्ठम्भस्म करोति २ सुवर्ण कुण्डलं करोति ३ घटम्पश्यति ४।
क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥