________________
.
शास्त्रार्थकलोपस्कृतः ।
२४१ नच कर्मतासम्बन्धेन भोजनप्रकारिका यदा ओदनविशेष्यकेच्छा तदेवैताशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्टसाधनताज्ञानाद्धोजनविशिष्टौदनधर्मिकेष्टसाधनताज्ञानाद्वा । ओदनस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्टधर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासम्भवात् । यत्र भोजनसिद्धतादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौवनजन्यपुष्टित्वादिप्रकारिका वा इच्छा तत्र बुभुक्षत इति प्रयोगस्य न प्रसङ्गः । मुख्य विशेष्यविशेषणतापनकर्मत्वांशे इच्छाप्रकारतया एव सन्प्रकृत्यर्थभानोपगमादिति वाच्यम् ? भोजनं भवस्वित्यादिभोजनविशेष्यकेच्छादशाया
मपि बुभुक्षते इति प्रयोगस्य सर्वसिद्धत्वात् । धात्वर्थविशेष्यकेच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् ।।
न च द्वयी व्युत्पत्तिरेवोपेयते । एकव्युत्पत्त्यैव निर्वाहे व्युत्पत्तिद्वयकल्पने गौरवात्त । अत एव च स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योक्तरीत्या सम्भवेऽपि गृहं तिष्ठासतीत्यादयो न प्रयोगाः । भोजनप्रकारकौदनविशेष्यकेच्छाविशेषदशायां बुभुक्षत इति प्रयोगसत्त्वे तु उद्देश्यता. ल्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात् । नच धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति, ओदनं बुभुक्षते इत्यादौ पाकौदनादेर्द्वितीयया कृतिभोजनादिकर्मस्वप्रत्यायनसम्भवेऽपि पाश्चि कोष्यते श्रोदनो बुभुक्ष्यते इत्यादौ कर्माख्यातेन तत्प्रत्यायनासम्भवः । तत्प्रकृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्ययेन बोध्यत्वात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । इच्छाविषयत्वविशेषितविशिष्टकृतिभोजनादेश्व प्रकृत्यप्रतिपादनादिति वाच्यम् ? कर्तृप्रत्ययस्थले सन्प्रत्ययार्थछाया धात्वर्थविशेष्यतया मानेऽपि कर्मप्रत्ययस्थले तस्या धात्वर्थविशेषण. तया भानोपगमात् । चिकीयॆते पाक इत्यादौ इच्छाविशेषितकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायनसम्भवात् । आख्याताद्य पस्थितवर्तमान. स्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यर्थः, यत्र वा इच्छाविषयकृतिस्तत्रोभयत्रैवेच्छायामन्वयः, प्रकृत्यर्थ कदेशेऽपि नौलतरो घट इत्यादिस्थले नीलरूपादौ तरबाद्यर्थातिशयान्वयानुरोधात । नचैवं कर्मप्रत्ययस्थलेऽपि कृतिविशेषितैवेच्छा सना प्रत्याय्यतो, विशेषणीभवन्तो कृतिरेव कर्मत्वेना. न्वीयताम् , भवन्मते विशेषणीभूतेच्छायां वर्तमान त्वाद्यपराख्यातार्थान्वयवदिति वाच्यम् ? एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयोऽव्यु
हृदयम् । अत्र कर्मत्वांश इति पाठो न युक्तः किन्तु कमांश इति ।
कर्मत्वेनेति-अत्र सहेति शेषः १६ व्यु०