________________
२५४
व्युत्पत्तिवादः ।
काले युक्ताऽभिसरणे मुह्यन्ते मृगमोहिकाः । उष्ट्रासिकास्समास्यन्ते शय्यन्ते हतशायिकाः ॥
इत्यत्र बहुवचनन्तु भाष्यप्रयोगादेव नोपायान्तरम् ।
अव्यये "ऽव्ययादाप्सुप" इतिगमकवत्सत्येव गमके ह्यौत्सर्गिकमेकवचनमिति प्रवतत इति । अत एव ङयाप्सूत्रखण्डने तिङन्तेभ्यस्तदुत्पत्तिवारणाय तिङा संख्याया उक्तत्वान्न तिबुत्पत्तिरिति भाष्यं तदपि न युक्ततरम् । "अपदन्न प्रयुञ्ज! ते” तिनियमपालनायैवौत्सगिकवचनन्न सत्र गमकापेक्षा गरीयसी । ङयाप्सूत्रभाष्यन्तु संख्यासामान्याऽभावबोधकम् । एकाच क्रियेति भाष्यमप्येतदर्थकमेव भाष्यप्रयोगातिरिक्तस्थले द्विवचनादिकमसाध्वेवेति ।
पच्यते तण्डुल इत्यत्र प्रथमान्तार्थवशेष्यकबोधः, तण्डुलम्पचतीत्यत्र तु क्रियामुख्यविशेष्यकबोधः । पक्ता यष्टेत्यादौ कृत्प्रत्ययस्थले प्रथमान्तार्थविशेष्यकत्रोवः । देवदत्तेन भूयत इत्यत्र प्रथमान्तपदाऽभावात् क्रियामुख्यविशेप्यकबोध इति बहुत्र बहु. रीतिदर्शनेन "भावप्रधानमाख्यात” मितिशाब्दिकाभिमतस्य प्रायिकत्वमेवेति शुक्लाः । अत्र तार्किकाः
व्याकरणमहाभाष्योक्त पदैकवाक्यताम्पश्य मृगो
धावतीत्यत्रत्यान्तार्किका अपि समादधते । धावनक्रियाकत्त 'त्वेनाऽभिमतस्य मृगस्य कर्मतासम्बन्धेन पश्यत्यर्थेऽन्वयास्पदैकवाक्यता भाष्याभिमता साध्येव । भाष्यकृतो हि मृगपदार्थान्वय एव तात्पर्यम् । नचैवमन्वये तण्डुलः पचतीत्यादावपि कर्मतासम्बन्धेन तण्डुलपदार्थस्य पाकेsन्वयसम्भवात्तादृशप्रयोगापत्तिरिति वाच्यम् ? भाष्यप्रामाण्यात्तत्र कर्मतासम्बन्धेनान्वयेऽपिं प्रमाणविशिष्टाऽभावेन सर्वत्र तथान्वयस्यानौचित्यात् । अव एव काष्ठम्भस्मराशिः करोतीति प्रयोगाऽभावः ।
न च का भस्मराशिः क्रियत इत्यत्र कर्मणि प्रत्यय इति वाच्यम् १ तत्संसर्गत्वस्य तत्राऽस्वीकारे वाक्याऽभेदाऽपत्त्या काष्ठं नाश्यते भस्म क्रियते इत्यर्थनिर्णयो न स्यात् । इदम्भस्म काष्ठविकृतिरन्यविकृतिर्वेति संशायकवाक्ये संशयनिवर्त्त कत्वाऽसि द्वेस्तथाचोक्तप्रयोगसिद्धिसौष्ठवात् । एवञ्च भावनाप्रकारक बोधे धातुजन्योपस्थितिरिति वदतां युक्तिशून्यत्वमेव ।
किञ्च पश्य मृगो धावतोतिवत् तण्डुलः पचतीत्यत्र नाऽपत्तिः कर्मतान्वयसंसर्गकपच्यर्थविशेष्यकबोधस्य सर्वथाऽप्रसिद्धत्वात्, यादृशम्फलं किचित्प्रसिद्धन्तादृशस्यैवाऽपत्तिस्सम्भवति, तण्डुलम्पचतीत्यादौ यद्यपि प्रसिद्धम् तथाऽपि तत्र द्वितीयान्तसमभिव्याहारः कारणमिति व्याप्तेः ।
ननु प्रथमान्तार्थविशेष्यकबोधस्वीकारे पचतिकल्पञ्चैत्रः पचतः कल्पं चैत्रावित्यादौ समानलिङ्गवचनकत्वाऽपत्तिराख्यातार्थकृतेश्चैत्रेऽभेदान्वयस्येष्टत्वात् शक्यार्थस्याऽयोग्यस्त्वादग्वयाऽभावात् इत्याहुः ।
C