________________
शास्त्रार्थकलोपस्कृतः।
२५५ बस्तुतस्तु मृगकर्तृकोत्कटधावनदर्शन एव तात्पर्यम् । धावनस्यैव कर्मत्वेनान्वये प्रवृत्तिःकीहशन्धावनमिति प्रतीतेः । तथाच क्वचित्प्रथमार्थविशेष्यकबोधः क्वचि. क्रियाविशेष्यकबोध इतिनिश्चयेन प्रकरणतात्पर्य्यानुसारेण यथाप्रयोगव्यवस्थेत्यलम् ।
नच "ल : कर्मणी' त्रिसूत्रे कृतिपदार्थश्रवणं कथमिति वाच्यम् १ पचतीत्यादौ पाकानुकृलकृत्याश्रयो देवदत्त इति बोधात्कृतिविशिष्ट विषयकबोधजनकत्त्वविशिष्टबोधजनका लकारा भवन्तीति । नच "तिङसमानाधिकरणे प्रथमेति" वार्तिकात्तिङाऽभिन्नार्थबोधकपदात्प्रथमेति अतिस्तथा च तिर्थकृत्यभेदस्य चैत्र वाधा. स्पचति चैत्र इत्यादीनामसिद्धिरिति वाच्यम् ? समवायस्वरूपान्यतरसम्बन्धेन तिङ
ान्वितार्थबोधकपदात्प्रथमेत्येव व्याख्यानात् तिङर्थकृतेस्समवायेन चैत्रे सत्त्वात् । नच प्रसिद्धायन "ल: कर्मणी" तिस्मृतिविरोध इति कथं कृती शक्तिरिति वाच्यम् ? नहि वाच्यवाचकमावो भ्याकरणस्मृत्यधीनस्तस्यान्वयव्यतिरेकगम्यत्वात् । नच शब्दा. धिकाराश्रयेण कृतिपरत्त्वस्वीकारे प्रमाणाऽभाव इति वाच्यम् ? शानजादौ पचमान इत्यादौ सत्त्वभूतो भावोऽर्थः। भूयते इत्यादावसत्त्वभूतो भावोऽर्थ इति वैषम्यस्य सर्वसिद्धत्त्वात् । नचाचेतने रथो गच्छतीत्यादी लक्षणया लक्ष्यतावच्छेदकगौरवं नैयायिकमते, वैयाकरणमते तथा शक्यतावच्छेदकमितिसाम्यमेव न गौरवमिति वाच्यम् ? अतिरिक्तशक्तिकल्पनापेक्षया क्लृप्तायां शक्तिसम्बन्धरूपलक्षणायां गौरवाऽभावात् । नच लक्षणाऽश्रयणे सकृदुचारितश्शब्दस्सकृदयं गमयतीति न्यायेन वृत्तिद्वयाऽनन्युपगमा स्कथम्बर्तमानत्वादीनामन्वय इति वाच्यम् ? शक्ततावच्छेदकलक्ष्यतावच्छेदकभेदात् लट त्वेन वर्तमानत्वे शत्तिलकारत्वेन लक्षणा, लकारत्वलरवरूपशक्ततावक्छेदकभेदात् । नच लक्षणाज्ञानजन्याऽश्रयत्वाद्युपस्थितेरेककालावच्छेदेन हेतुत्वकल्पने गौरवमिति वाच्यम् १ तद्विषयकशाब्दबोधम्प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थितित्त्वेनैव हेतुतया लक्षणाज्ञानस्य पृथक् हेतुत्वाऽभावात् । नचानुकूलाभेदादिसंसर्गाणां कथं शाब्दबोधविषयत्वं वृत्त्याऽनुपस्थितत्वात्, किञ्च संसर्गविषयकशाब्दबोधोऽस्ति वृत्त्योपस्थिति स्तीतिकार्यदलं गच्छति अर्थात्कार्यमस्ति हेतुदलागमनेन हेतुर्नास्ति हेतोः कार्यताववच्छेदकानाक्रान्तत्वन्दोष इति वाच्यम् ? संसर्गभिन्नतद्विषयकशाब्दबोधम्प्रति तद्वि. षयकवृत्तिज्ञानजन्योपस्थितेः कारणत्वात् । तद्धर्मप्रकारकतद्धर्भावच्छिन्नविशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मप्रकारकतद्धर्मविशेष्यकवृत्तिज्ञानाधीनोपस्थिते कारणत्वात् । संसर्गाणां तद्धर्मप्रकारकत्वाऽभावेन दोषाऽभावात् । नच वृत्त्यनुपस्थितानुकूलाभेदादिसंसर्गाणां शाब्दबोधविषयत्वे राजपुरुष इत्यादी जन्यजनकादियावत्सं सर्गभानापत्तिरिति वाच्यम् ? तात्पर्यस्य नियामकत्वात् । शाब्दबोधे चैकपदार्थेऽपरपदा. र्थस्य संसर्गस्संसर्गमर्यादया भासते। नच किं करोति किन्बिषयको यत्न इत्येवं यत्नार्थककरोतिना प्रश्ने पचतीत्युत्तरदर्शनादाख्यातस्य यस्नार्थत्त्वे कृत्रो यत्नार्थत्वे यतिवत्