________________
२५६
व्युत्पात्तवादः। कृषोऽकर्मकत्वापत्तौ घटं करोतीतिवत् घटं यतते इतिप्रयोगापत्तिरिति वाच्यम् ? सकर्मकोऽपि धातुविवक्षयाऽकर्मको भवति "धातोरर्थान्तरे वृत्त त्विर्थेनोपसंग्रहात" इत्युक्तथा विवक्षाधीनत्वेन तत्र नैयायिकमते दोषाऽभावात् ।
न च क्रियते घटस्स्वयमेवेत्त्यादौ कर्मवद्भावानापत्तौ यगाद्यनापत्तिः कमांवस्थायां या क्रिया सा कर्बवस्थायाञ्चेत्तदैव "कर्मकर्मणे" त्यत्य प्रवृत्तिः, कृतिश्च न घटादिनिष्ठा--प्रश्नवाक्ये यत्नविशिष्टे जिज्ञासितसम्बन्धः, उत्तरवाक्येतु आश्रयत्वादिसम्बन्ध इति वैषम्यात् । तथा च कृतो यत्नार्थत्वन्न योग्यमिति वाच्यम् ? अनेकार्थाअपि धातवो भवन्ति धातूनामनेकार्थत्वात्तत्तदिष्टप्रयोगानुरोधेन धातूनान्तत्तदर्थपरिकल्पनात् ।
नच पच्यते तंडुलेनेच्यादौ नैयायिकमते "कर्मवत्कमणे" त्यतिदेशाकर्मणि द्वितीयापत्तिः, वैयाकरणमते तु "लिल्याशिष्यङिति', द्विलकारकाल्ल इत्यनुवृतेल कारवाच्य स्यैव कर्तुः कर्मवत्त्वेन भावे लकारे तेन कर्तुरनुपस्थितेरदोष इति वाच्यम् ? लकारवाच्यकृत्याश्रयः कर्ता कर्मवदिति सूत्रार्थेन लकारवान्यकत्त त्वाश्रयः कर्ता कर्मवदिति लक्षणया परिकल्पितेनाथेन च दोषाऽभावात्कृतावेव शक्तिरिति पक्षस्य निर्विवादत्वात् ।
नच वैयाकरणमते आख्याताश्रियप्रकारकबोधम्प्रति प्रथमान्तपदजन्यबोधो हेतुः तदर्थसंख्याप्रकारकबोधे तदर्थाश्रयज्ञानं हेतुः, तदर्थकालप्रकारकबोधे धातुजज्ञानं हेतुरिति कार्यकारणभावत्रयज्ञानं नैयायिकमते तु काल इष्टसाधनत्वाद्यतिरिक्ताख्यातार्थबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति संख्याभावनयोरेक इति वाच्यम् ! आख्यातत्वाद्यजानत ईदृशकार्यकारणभावग्रहाऽसम्भवात् । किञ्च आख्यातेन क्वचिकृतेः क्वचिदाश्रयत्वस्य बोधः कृतेः क्वचिद्धातुना क्वचित्प्रत्ययेन बोध इत्यर्थस्य पर्यवसितत्वेनानेककार्यकारणभावापत्तः । नच लकाराणां कृतौ शक्तिस्वीकारे पच-~अजर्घा अचकात् इत्यादी प्रत्ययानां लोपेन अस्यापत्यमिरियानितिवच्छिष्यमाणो लुप्यमानार्थाऽभिधायीति न्यायेन यत्नकालसंख्यानां धातुवाच्यत्त्वावश्यकत्वेन सामान्यरूपेण प्रत्ययशक्तिकल्पने गौरवमिति वाच्यम् ? शास्त्रमात्रेऽवशिष्टानां सर्वाधिकारवत्त्वस्याऽगत्या स्वीकारात् । नच पचन्तं चैत्रम्पश्येत्त्यादौ सामानाधिकरणयानुपपत्तौ शतृपत्ययो न स्यादिति वाच्यम् ? "लः कर्मणि चे' तिसूत्रस्य "लटश्शतृशानचा" वित्त्यनेनैकवाक्यतयाऽभीष्टसिद्धेः। नच तिङर्थाऽभिन्नत्त्वं हि तिङ्सामानाधिकरण्यमिति कृतौ शक्तिस्वीकारे पुरुषव्यवस्था न सिद्ध्येदिति वाच्यम् ? तत्र समानाधिकरणपदबलात्तिवाच्यकारकवाचिनी इत्यर्थवत्समवायस्वरूपान्यतरसम्बन्धेन तिङान्विताथेंबोधके युष्मद्युपपदे इत्यथेन दोषाऽभावात् । अत एव अतित्त्वम्भवतीत्यत्र न मध्यमपुरुषव्यवस्था ।
नच पच्यते तण्डुलेनेत्यत्र कथन्निर्वाह इति वाच्यम् ? समवायसम्बन्धेन लका