________________
शास्त्राथकलोपस्कृतः रान्वितार्थः कर्त्ता कर्मवदिति कर्मवत्कर्मणेत्यस्यान दोषाऽभावात् । किञ्च "ल:कर्मणि च "द्वयकयोर्दिवचनैकवचने" "बहुषु बहुवचनम्" इत्यादिसूत्राणां "तिप्तस्. झीति" विधिशास्त्रेण महैकवाक्यतया कत्तु रेकत्वे विवक्षिते एकवचनात्मको लकारः द्वित्वे विवक्षिते द्विवचनात्मको लकार एवमेव तिबादीनां विधानमिति । अत एक महाभाष्ये यटैकत्वादयो विभक्त्यर्यास्तदा इति । अत एव
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैस्सह ।
एकवाक्यतया युक्तमुपदेशम्प्रतन्वते ॥ इत्यभियुक्तोक्तिस्सङ्गन्छते । नच कृतिशक्तिवादे चैत्रः पचतीत्यादावभिहितानभिहितव्यवस्थानुपपत्त्या तृतीयापत्तिरिति वाच्यम् ? कत्तु गतसंख्याऽनभिधाने तृतीयेत्यर्थस्य जल्पनीयत्वात् , कर्मवादिरहितप्रथमान्तपदोपस्थाप्यस्य चैत्रादेस्संख्याभिधानयोग्यत्वात् । इतरविशेषणत्वेन तात्पर्याविषयत्वमित्यर्थः । अत एव चैत्र इव मैत्री गच्छतीत्यत्रापि न तृतीयापत्तिरिति । संख्याकांद्यन्यतराभिधाने तृतीयेत्यर्थेन कल्पितेनादोषाच । नच कर्तरि शक्ती अनन्तकृतीनां शक्यतावच्छेदकत्वे गौरवमन्ववादि तत्क.. थम् ? लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकस्य गुरुणि स्वीकारे वाधकाऽभावः, अन्यूनानतिरिक्तवृत्तित्त्वरूपस्यावच्छेदकत्त्वस्य गुरुधर्मेऽपि मत्त्वम् , अवच्छेदकत्वन्नातिरिक्त. पदार्थः किन्तु स्वरूपसम्बन्धस्तत्तत्स्वरूपमेवेति तस्यावच्छेदकत्वे न हानिः । नच सम्भ. वति लघौ गुरौ नावच्छेदकत्वम् कम्बुग्रीवादमान्नास्तीतिवत् इति वाच्यम् १ यत्र लधु . गुरुरूपाम्याम्बोधो निर्विवादस्तत्रैव लघुधर्मावच्छिन्न शक्तिश्शक्यतावच्छेदकश्च । प्रकृते तु प्रत्ययात्कृतित्वेन बोधस्सविवाद इति कथनात् । पूर्वोक्तं गौरवं गुरुतरभारोद्वहनमिव शरीरस्य चित्तस्य वा न खेदजनकम् ? एत्तल्लेखप्रारम्भिककार्यकारणभावगौरवाणाजागरूकत्वात् । न च रथो गच्छतीत्यादी कृतिशक्तिवादे कयमाश्रये लक्षणा, विभक्तो न लक्षणा-अत्र "कत्त कर्मणोः कृती'ति सूत्रं ज्ञापकमन्यथा शेषषष्ठयेव कर्तृत्वकर्मवयोलक्षणया लाभे सिद्धे तत्किमर्थम् । किञ्च ऋजवस्भन्तु पन्था इति वैदिकवाक्ये सुप्रत्ययस्यैकवचनस्व बहुवे लक्षणयव सिद्धौ "सुपा सुलुकपूर्व सवर्णाच्छेये" तिसूत्रकिमर्थन्तथा च कथं रथाश्रये लक्षणा । नच "द्वन्द्वे च 'न बहुव्रीहा' वित्यादौ प्रथमार्थकसप्तमी लक्षणाम्विना कथं सिद्धयेदिति वाच्यम् १ सूत्राणां छन्दोवत्त्वेन निर्वाहादिति वाच्यम् ? सुब्विभक्तौ न लक्षणेति सिद्धान्तस्यैवाऽभिमतत्वात् । ननु ज्ञापकमसति बाधके प्रमाणानां सामान्ये पक्षपात इतिन्यायेन विभक्तौ न लक्षणा तिकोऽपि "सुप्तिङन्तमिति. सूत्रेण विभक्तित्वमिति सामान्यकल्पनेति चेत्तहिं विवादग्रस्तोऽयम्विषयः। नच कृती शक्तिस्वीकारे करोति करणं कृतिरित्यादौ कृधातोरपि स एवार्थः प्रत्ययार्थोऽपि कृतिरेव कथन्तयोः कृत्योरन्वय इति वाच्यम् ? द्वौ ब्राह्मणौ व्यतिलुनीत इतिवदर्थबोधकप - द्वयसमभिन्याहारे एकस्मिन्सङ्कीच्यसङ्कोचकभावाश्रयणेन अगत्या युक्त्यन्तराऽभावेन. चाक्षतेः । नच कृतिशक्तिवादे रथो गच्छतीत्यादी लक्षणा, कृतियत्नविशेषस्तस्य रथे
१७ व्यु०