Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 260
________________ २५२ व्युत्पत्तिवादः व्यक्तश्शक्यतावच्छेदकत्त्वे मैत्रः पचतीति बाक्यस्याऽप्रामाण्यप्रसंगात् । नच सकलाश्रयनिष्ठाश्रयत्वं लाघवादेकमेवेति वाच्यम् ? अधिकरणपदार्थस्य सखण्डत्वेन समवायसम्बन्धावच्छिन्न त्वनिवेशाऽसम्भवेन कालिकसम्बन्धेन पाकस्य काले सत्त्वेन का. ल: पवतोति वाक्यप्रामाण्यापत्तेः । किञ्च समवायसम्बन्धावच्छिन्नत्वनिवेशेऽपि शाब्दिकमते आश्रयस्वस्येक्येन समवायसम्बन्धावच्छिन्नाश्रयतायाः कालिकसम्ब. न्धावच्छिन्नाश्रयतायाश्च अभेदात्पाकनिरूपिताश्रयत्वस्य काले सत्त्वेन तादृशप्रयोगापत्तेस्सौष्ठवाच्च । किञ्च सकलाश्रयनिष्ठाश्रयत्त्वस्यैकत्वे समवायेन वह्नयाश्रयत्ववान् वयवयव इतिवत् संयोगेन वह्नयाश्रयत्ववान् बयवयव इति प्रयोगापत्तः । किञ्च संयोगेन वहथधिकरणतावान्पर्वत इत्यत्र तृतीयान्तार्थसयोगावच्छिन्नत्वस्यान्वयभङ्गप्रसङ्गः अधिकरणत्वस्याखण्डत्वेन शाब्दिकनये सम्बन्धावच्छिन्नत्वात् । नच संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नाधेयतानिरूपकत्वविशिष्टाधिकरणतावावच्छिन्नाधिकरणत्वस्य वह्नयवयवे विरहान्न पूर्वदोष इति वाच्यम् ? तादृशाधिकरणतात्वावच्छिन्नाधिकरणत्वस्य पुनरप्यधिकरणत्वाऽभिन्नतया तत्र नास्तीति कथनस्य सर्वथैवाशक्यत्वात् । किञ्च विशिष्ट सत्तानिष्ठाऽधेयत्त्वत्य शुद्धसत्तानिष्ठाऽधेयत्त्वस्य चानतिरिक्तत्वपक्षे समवायसम्बन्धावच्छिन्नविशिष्ट सत्तानिष्ठाधयतानिरूपकाधिकरणत्वस्य गुणादौ सत्त्वेन समवायेन विशिष्ट सत्ताधिकरणत्ववान् गुण इति प्रतीतेदुवारत्वात् । नैयायिकमते तु अधिरणतया नानात्वात्समवायसम्बन्धावच्छिन्नगुणकमान्यत्वविशिष्टसत्तात्वावच्छिन्ननिरूपकतानिरूपिताधिकरणत्त्वस्य तत्राऽभावात्पूर्वोक्तप्रतीतेरसम्भवात् । नचाश्रयत्वस्य नानात्वेऽपि समवायस्यैक्येन समवायसम्बन्धार्वाक्छन्नाधिकरणताया ऐक्यात्ताहशाधिकरणत्वमेव शक्यतावच्छेदकमस्तु काले समवायेन व्यापारत्यासत्त्वेन कालः पचतीति पूर्वदोषो नास्तीति वाच्यम् ? सम्बन्धैक्येनाधिकरणत्वस्यैकत्वस्वीकारे जलनिष्ठसमवायसम्बन्धावच्छिन्ननिरूपकताधिकरणतातो वह्नित्वावावच्छिन्नसमवायसम्बन्धावच्छिन्ननिरूपकताधिकरणत्वस्याभिन्नतया समवायेन वहृयाधिकरणतावजजलं समवायेन जलत्वाधिकरणतावाँश्च पर्वत इत्यादिप्रतीतेरनिवायत्वात् । नच समवायसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नाधिकरणतात्वावच्छिन्नस्वरूपसम्बन्धावच्छि. न्नाधिकरणत्वस्य जले बाधान्नापत्तिरिति वाच्यम् ? स्वरूपसम्बन्धावच्छिन्नाधिकरण. त्वस्यानेकत्वाभावेन जले सत्वात् । किञ्च पर्वतीयरूपस्य समवायेन पर्वते सत्त्वेन समवायेन पर्वतीयरूपाधिकरणत्ववान्पर्वत इति प्रतीतिसत्नात् समवायेन बढ्यधिकरण त्ववान् पर्वत इति प्रतीतेश्च निराकर्तुमशक्यत्वात् । तथा च आश्रयत्वम्भिन्नम्भिन्नमिति कालः पचतीत्यापत्तेस्तादवस्थ्यात् कृतावेव शक्तिर्नतु कर्तरीति । किञ्च"लः कर्मणी" तिसूत्रं "कर्तरि कृदि" तिसूत्रादाकृष्टं कर्तरीति कृतिवि. शिष्टसामान्य लकाराणामर्थम्बोधयति । कृत्याश्रये शक्तिनतु आश्रये, कृतित्त्वजारेव शक्यतावच्छेदकतावच्छेदकत्वेन लाघवात् ।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296