Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 263
________________ शास्त्रार्थकलोपस्कृतः। २५५ बस्तुतस्तु मृगकर्तृकोत्कटधावनदर्शन एव तात्पर्यम् । धावनस्यैव कर्मत्वेनान्वये प्रवृत्तिःकीहशन्धावनमिति प्रतीतेः । तथाच क्वचित्प्रथमार्थविशेष्यकबोधः क्वचि. क्रियाविशेष्यकबोध इतिनिश्चयेन प्रकरणतात्पर्य्यानुसारेण यथाप्रयोगव्यवस्थेत्यलम् । नच "ल : कर्मणी' त्रिसूत्रे कृतिपदार्थश्रवणं कथमिति वाच्यम् १ पचतीत्यादौ पाकानुकृलकृत्याश्रयो देवदत्त इति बोधात्कृतिविशिष्ट विषयकबोधजनकत्त्वविशिष्टबोधजनका लकारा भवन्तीति । नच "तिङसमानाधिकरणे प्रथमेति" वार्तिकात्तिङाऽभिन्नार्थबोधकपदात्प्रथमेति अतिस्तथा च तिर्थकृत्यभेदस्य चैत्र वाधा. स्पचति चैत्र इत्यादीनामसिद्धिरिति वाच्यम् ? समवायस्वरूपान्यतरसम्बन्धेन तिङ ान्वितार्थबोधकपदात्प्रथमेत्येव व्याख्यानात् तिङर्थकृतेस्समवायेन चैत्रे सत्त्वात् । नच प्रसिद्धायन "ल: कर्मणी" तिस्मृतिविरोध इति कथं कृती शक्तिरिति वाच्यम् ? नहि वाच्यवाचकमावो भ्याकरणस्मृत्यधीनस्तस्यान्वयव्यतिरेकगम्यत्वात् । नच शब्दा. धिकाराश्रयेण कृतिपरत्त्वस्वीकारे प्रमाणाऽभाव इति वाच्यम् ? शानजादौ पचमान इत्यादौ सत्त्वभूतो भावोऽर्थः। भूयते इत्यादावसत्त्वभूतो भावोऽर्थ इति वैषम्यस्य सर्वसिद्धत्त्वात् । नचाचेतने रथो गच्छतीत्यादी लक्षणया लक्ष्यतावच्छेदकगौरवं नैयायिकमते, वैयाकरणमते तथा शक्यतावच्छेदकमितिसाम्यमेव न गौरवमिति वाच्यम् ? अतिरिक्तशक्तिकल्पनापेक्षया क्लृप्तायां शक्तिसम्बन्धरूपलक्षणायां गौरवाऽभावात् । नच लक्षणाऽश्रयणे सकृदुचारितश्शब्दस्सकृदयं गमयतीति न्यायेन वृत्तिद्वयाऽनन्युपगमा स्कथम्बर्तमानत्वादीनामन्वय इति वाच्यम् ? शक्ततावच्छेदकलक्ष्यतावच्छेदकभेदात् लट त्वेन वर्तमानत्वे शत्तिलकारत्वेन लक्षणा, लकारत्वलरवरूपशक्ततावक्छेदकभेदात् । नच लक्षणाज्ञानजन्याऽश्रयत्वाद्युपस्थितेरेककालावच्छेदेन हेतुत्वकल्पने गौरवमिति वाच्यम् १ तद्विषयकशाब्दबोधम्प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थितित्त्वेनैव हेतुतया लक्षणाज्ञानस्य पृथक् हेतुत्वाऽभावात् । नचानुकूलाभेदादिसंसर्गाणां कथं शाब्दबोधविषयत्वं वृत्त्याऽनुपस्थितत्वात्, किञ्च संसर्गविषयकशाब्दबोधोऽस्ति वृत्त्योपस्थिति स्तीतिकार्यदलं गच्छति अर्थात्कार्यमस्ति हेतुदलागमनेन हेतुर्नास्ति हेतोः कार्यताववच्छेदकानाक्रान्तत्वन्दोष इति वाच्यम् ? संसर्गभिन्नतद्विषयकशाब्दबोधम्प्रति तद्वि. षयकवृत्तिज्ञानजन्योपस्थितेः कारणत्वात् । तद्धर्मप्रकारकतद्धर्भावच्छिन्नविशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मप्रकारकतद्धर्मविशेष्यकवृत्तिज्ञानाधीनोपस्थिते कारणत्वात् । संसर्गाणां तद्धर्मप्रकारकत्वाऽभावेन दोषाऽभावात् । नच वृत्त्यनुपस्थितानुकूलाभेदादिसंसर्गाणां शाब्दबोधविषयत्वे राजपुरुष इत्यादी जन्यजनकादियावत्सं सर्गभानापत्तिरिति वाच्यम् ? तात्पर्यस्य नियामकत्वात् । शाब्दबोधे चैकपदार्थेऽपरपदा. र्थस्य संसर्गस्संसर्गमर्यादया भासते। नच किं करोति किन्बिषयको यत्न इत्येवं यत्नार्थककरोतिना प्रश्ने पचतीत्युत्तरदर्शनादाख्यातस्य यस्नार्थत्त्वे कृत्रो यत्नार्थत्वे यतिवत्

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296