Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 247
________________ शास्त्रार्थ कलोपस्कृतः । २३९ समूहालम्बनादौ च अस्य वह्नचादेर्ज्ञानान्वयितानिरूपकत्वं भासते । तादृशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः । बिर पयितापन्नस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं निरूपकत्वमि विषयत्वस्योपेयते, त्यर्थः । एतच विलक्षणं विषयितानिरूपकतावच्छेदकत्वमविषयस्यापि रक्तदण्डवानित्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेपापि रक्तत्वादिप्रकारतानिरूपितविशेष्यत्वेन दण्डादिप्रकारताया अवच्छेद्यावच्छेदकभावादित्याहुः ! तन्न शोभनम् ? उक्तरीत्या विनैव लक्षणानुपपत्तौ तस्या अन्याय्यत्वात् । च अथोक्तस्थळे आरोप्यारोपविषयधोधकपदयोर्ज्ञानान्वितार्थ करवे कर्म + प्रत्ययस्थळे लोहितो बहिर्ज्ञायते इत्यादौ विशेष्य भेदाद्वाक्यभेदापत्तिः । न लोहिताभेदज्ञानविषयो वह्निरित्येव शाब्दधोरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनम् ? तथा सति शुक्लो वह्निर्लोहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शित विशिष्ट वैशिष्टयबोधस्वीकारे लोहितादिप्रकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवह्वयादौ बाधितत्वेन तादृशप्रयोगापश्चिविरहादिति वाच्यम् ? तत्र छोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासम्भवात् | नामार्थधात्वर्णयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारतायाः संसर्गतया मानासम्भवादिति चेन्न ? यथाहि — घटो नीको भवति, वृक्षो नौका भवति, काष्ठं भस्म भवतीत्यादौ धात्वर्थेऽसाधारणधर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः । प्रथमाया अन्वरा भासमानार्थकत्वाभावात् । नौकादिपदस्य स्वारम्भकावयबारभ्याद्यर्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः । तथा धात्वर्थे प्रकृतेऽपि प्रकारितासम्बन्धेन लोहितादेः साक्षादन्वयस्यागस्योपगमात् । यथा प्रकृतिविकृतिभावस्थले वृक्षः पश्च नौका भवतीत्यादौ प्रकृतिभूतवृक्षादेर्विशेष्यत्तया भावनान्ययत्वात् तद्गतसंख्याबोधकतया प्रकृतिवाचकपसमानवचनत्वमाख्यातस्य । तथा एको द्वौ ज्ञायते इत्याद्युभयार्थाभेदान रोपस्थलीयवाक्ये एकादिपदार्थस्यारोप विशेष्यस्याख्यातार्थविशेष्यतान्वयविशेष्यतया तत्पदसमानवचनत्वमाख्यातस्य । नचैवम् "अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरास्थितम्" इत्यत्र कथमारोप्यविशे* व्यवाचकपदविरुद्धवचनत्वममानीति क्रियापदस्येति वाच्यम् १ उक्तस्थल इति—- रङ्ग रचतं चानातीत्यादौ । नचेति-वाच्यमितिपरेणान्वयः । यथा प्रकृतिषिकृतिभावस्थल इति ।

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296