________________
शास्त्रार्थ कलोपस्कृतः ।
२३९
समूहालम्बनादौ च
अस्य वह्नचादेर्ज्ञानान्वयितानिरूपकत्वं भासते । तादृशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः । बिर पयितापन्नस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं
निरूपकत्वमि
विषयत्वस्योपेयते,
त्यर्थः । एतच विलक्षणं विषयितानिरूपकतावच्छेदकत्वमविषयस्यापि रक्तदण्डवानित्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेपापि रक्तत्वादिप्रकारतानिरूपितविशेष्यत्वेन दण्डादिप्रकारताया अवच्छेद्यावच्छेदकभावादित्याहुः ! तन्न शोभनम् ? उक्तरीत्या विनैव लक्षणानुपपत्तौ तस्या अन्याय्यत्वात् ।
च
अथोक्तस्थळे आरोप्यारोपविषयधोधकपदयोर्ज्ञानान्वितार्थ करवे कर्म + प्रत्ययस्थळे लोहितो बहिर्ज्ञायते इत्यादौ विशेष्य भेदाद्वाक्यभेदापत्तिः । न लोहिताभेदज्ञानविषयो वह्निरित्येव शाब्दधोरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनम् ? तथा सति शुक्लो वह्निर्लोहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शित विशिष्ट वैशिष्टयबोधस्वीकारे लोहितादिप्रकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवह्वयादौ बाधितत्वेन तादृशप्रयोगापश्चिविरहादिति वाच्यम् ? तत्र छोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासम्भवात् | नामार्थधात्वर्णयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारतायाः संसर्गतया मानासम्भवादिति चेन्न ? यथाहि — घटो नीको भवति, वृक्षो नौका भवति, काष्ठं भस्म भवतीत्यादौ धात्वर्थेऽसाधारणधर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः । प्रथमाया अन्वरा भासमानार्थकत्वाभावात् । नौकादिपदस्य स्वारम्भकावयबारभ्याद्यर्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः । तथा धात्वर्थे प्रकृतेऽपि प्रकारितासम्बन्धेन लोहितादेः साक्षादन्वयस्यागस्योपगमात् ।
यथा प्रकृतिविकृतिभावस्थले वृक्षः पश्च नौका भवतीत्यादौ प्रकृतिभूतवृक्षादेर्विशेष्यत्तया भावनान्ययत्वात् तद्गतसंख्याबोधकतया प्रकृतिवाचकपसमानवचनत्वमाख्यातस्य । तथा एको द्वौ ज्ञायते इत्याद्युभयार्थाभेदान रोपस्थलीयवाक्ये एकादिपदार्थस्यारोप विशेष्यस्याख्यातार्थविशेष्यतान्वयविशेष्यतया तत्पदसमानवचनत्वमाख्यातस्य । नचैवम् "अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरास्थितम्" इत्यत्र कथमारोप्यविशे* व्यवाचकपदविरुद्धवचनत्वममानीति क्रियापदस्येति वाच्यम्
१
उक्तस्थल इति—- रङ्ग रचतं चानातीत्यादौ । नचेति-वाच्यमितिपरेणान्वयः । यथा प्रकृतिषिकृतिभावस्थल इति ।