________________
२३८
व्युत्पत्तिवादः तत्र च रहं रजतं जानातोति प्रयोगात्तादात्म्यसम्बन्धावच्छिमप्रकारता कर्मत्वानुशिष्टद्वितीयादेरेवार्थः। तस्याश्च तादृशप्रकारबाधिपदस मानचिभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टायामेव ज्ञानरूपक्रियायामन्वयः। तेन भेदारोपस्थले रङ्गे रजतत्वं जानातीतिवदभेदारोप. स्थळे रङ्गे रजतं जानातीति न प्रयोगः। उक्तस्थले च रङ्गरजतायोः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वये साकाङ्खत्वेऽपि नायोग्यतया तादशान्वयः । ननु एवं सति रङ्गरजतादिपदयोः सामानाधिकरण्यानुपत्तिरिति चेत् का क्षतिः। न चैवं रजतगतैकत्वबहुत्वाविवक्षायां रङ्गानि रजतं जानातोति प्रयोगस्य, स्त्रियं पासुलान् जानातीति प्रयोगस्य च प्रसङ्गः, सामानाधिकरण्यस्यैव समानवचनलिङ्गकत्वनियतत्वादिति वाच्यम् ? समानाधिकरणयोरिव यत्पदार्थविशेष्यकत्वविशिष्टे. भेदसम्बन्धावच्छिन्नयपदार्थप्रकारकत्वस्यान्वयस्तयोरपि समानलिङ्गवचनत्वनियमात् ।। ___ यज्ञपतिमतानुयायिनस्तु रङ्ग रजतं जानातीत्यादौ सामानाधिकरण्यानुरोधाद् रजतादिपदस्य रजताभेशज्ञानविषये लक्षणा । अत एवभ्रान्तिशविशेषदर्शिना प्रयुक्तस्य लोहितवहिं जानातीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः। नह्यसमासस्थल इव लोहितवहयाद्योरभेदाविवक्षा ज्ञानांशे लोहितादेः स्वातन्मयेणान्वयो वा सम्भवति, कर्मधारयस्य साधुतानुपपत्तेः। लोहितपदोत्तरं प्रकारताबोधकविभक्तरभावात् । धास्व. थे साक्षान्नामार्थस्य भेदान्वयेऽव्युत्पत्तेः द्वन्द्वस्थलवकर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकवाभावात् तस्याः पूर्वपदार्थान्वितप्रफारताबोधकस्वायोगात् । न च द्वन्द्वसमाप्त एवासौ ? अल्पाचो वह्निपदस्य पर निपातप्रसङ्गात् । समाहारपक्षे पुंल्लिङ्गताया इतरेतरपक्षे च एकवचन. स्यानुपपत्तेः। एतन्मते शुक्लो वह्निरित्यादिप्रमायां लोहिताभेदारोपविषयवलिविपकयत्वेऽपि शुक्लो वह्विलॊहिता जपेति समूहालम्बनप्रमाया लोहिताभेदावगाहिस्वविषयवह्निविषयकत्वेऽपि च तदशाया लोहितवह्नि लोहितं यहिंवा जानातोति न प्रयोगः। तादृशपदोपस्थाप्यविषय. ताया धर्मिपारतन्छयेण द्वितोयार्थविषयतायामभेदसम्बन्धेन विशेषरणताया नियमोपगमात् । अथवा लोहिताभेदविषयतानिरूपितविषयताप
शानरूपक्रियायामिति--एवश्व रक्षनिष्ठविशेष्यताविशिष्टं यद्रषतनिष्ठप्रकारवाविशिष्टं शानन्तदाश्रम इति शान्दयोधप्रकारः । घटपटाविति दन्दपन्न कर्मधारये व्यव हार हस्याशयेना द्वन्दूस्थलवदित्यादि।