________________
शास्त्रार्थकलोपस्कृतः।
२३७ उक्तस्थले च तृतीयान्ताधर्थस्य द्वितीयान्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसम्बन्धेनान्वय इत्यपि केचित् । तन्न ? विभक्त्यर्थे विभक्त्यर्थान्वयस्याव्युत्पन्नत्वात् । नच रजतत्वेनेदं ज्ञायते इत्यादौ आख्यातार्थवि. षयता तृतीयार्थप्रकारतायां निरूपितत्वसम्बन्धेनान्वयान्नोक्तव्युत्पत्ति कल्पनमिति वाच्यम ? तत्रापि रजतत्वादिप्रकारकश्वविशिष्टधात्वज्ञाननिरूपितत्वस्याख्यातार्थे भानस्वीकारेणवातिप्रसङ्गभङ्गात् । नच तस्मात्पचति तस्माच्चैत्रस्येत्यादौ विभक्त्यर्थे कृतिसम्बन्धादौ बिभक्त्यर्थान्वयदर्शनानास्त्युक्ता व्युत्पत्तिरिति वाच्यम् ? हेतुविभक्त्यर्थातिरिकविभवत्यथेस्यानन्दयनियमात् ।
न च रजतत्वेनेदं जानातीत्यादौ तुरीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्वयसम्भव इत्थगत्या द्वितीयार्थ एव तदन्वय उपगन्तव्य इति वाच्यम् ? मणिकारमते तस्माज्जानातीत्यादौ ज्ञानादिरूपधात्वर्थे हेतुविभक्त्यर्थस्य तस्मात् स्थीयते इत्यादौ च सर्वमत एव धावर्थस्थित्यादौ तस्यान्वयेन षष्ठयर्थसम्बन्धस्यापि “गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैरि"स्यादौ धात्वर्थऽन्वयेन कर्मासमभिव्याहते रजतत्वेन जानातोत्यादौ धात्वर्थे तृतीयार्थान्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्तथर्थय क्रियायामनन्वय इत्यनियमात् ।
एवं घटत्वेन वह्निर्नास्तीत्यादौ प्रथमार्थो नानुयोगित्वम् । प्रथमाया। संख्यातिरिक्तार्थाधोधकत्वनियमात् । अतो नर्थाभावे संबन्ध एव तत् । तत्र च न तृतीयार्थान्वयसंभवः। __ मम तु अनुयोगितासंबन्धेन वहयादिविशिष्टाभावे तृतीयान्तार्थपोटश्वावच्छिन्नप्रतियोगिताकत्ववैशिष्टयभानाद्विशिष्टवैशिष्टयबोधमर्यादया। वलपाद्यनुयोगिकत्वस्थलीयस्यानुयोगितया
सम्बद्धवहयादेस्ताहशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् ।
अनुयोगिताया नबर्थतावच्छेदकत्वे तत्रैव वड्थादेः प्रतियोगिनोऽन्य. यः। अतस्तत्र तृयोयान्तार्थघटवावच्छिन्नप्रतियोगिताया निरूपकत्वेनान्वयं स्वीकृत्यातिप्रसङ्गवारणं सम्यक् प्रतिभाति । रङ्गेऽभेदेन रजतारोपस्थले रङ्ग रजतेन जानातीत्यप्रयोगात्। तादात्म्यभिन्नसम्बन्धावच्छिनप्रकारतैव तृतीयार्थः।
भाव इति-परस्परमिति शेषः । उक्तस्थले चेति-रजतत्वेन शुक्तिमानातीत्यादौ चेत्यर्थः। तादृशप्रतियोगिकत्वेनेति-घटत्वावच्छिन्नप्रतियोगिताकवयभावपरस्य नैव प्रामाण्यम् । प्रतियोगिनोऽन्वय इति-निरूपितत्वसम्बन्धेनेत्याकूतम् ।
-
-