________________
२३६
व्युत्पत्तिवादः। अनुमित्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितोयार्थः तेन व. इपादिपक्षकानुमितिपरस्य वह्निमनुमिनोमोत्यादिवाक्यस्य न प्रामा. ण्यम् । यदि च वह्निसाध्यकपर्वतपक्षकानुमितिपरस्य वहिमत्त्वेन पर्वतमनुमिनोमीत्यादिवाक्यस्यापि प्रामाण्यं मन्यते तदा तादृशे धातुसंयोगे सद्देश्यत्वमुश्यित्वं वा द्वितीयार्थः । तस्य च तृतोयान्तोपस्थाप्यसाध्य. विधेयकत्वेन विशिष्टेऽन्वयः । अतो वद्धिमत्त्वेनेत्याधसमभिव्याहारेण सत्र पर्वतमनुमिनोमीत्यादयो न प्रयोगाः। विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् तृतीयान्तेन चहृयादिविधेयकत्वं कथमुपस्थापनीयमिति न शङ्कचम् । वैशिष्टय रूपार्थ तृतीयानुशासनसत्त्वात् । विधेयतादेरपि वैशिष्टये रूपत्वात् । ___ अत एव रजतत्वेन शुक्तिं जानातीत्यादी ज्ञाने रजतत्वादिप्रकारकस्वस्य घटत्वेन वहिर्नास्तीत्यादौ सौन्दडमते अभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्य नृतोयान्ततो बोधः।।
तृतीयान्तार्थरजतस्वादिप्रकारकत्व द्वितीयान्तार्थशुक्त्यादिविषयकत्वयोः विशिष्टवैशिष्टयबोधमर्यादयाऽवच्छेद्यावच्छेदकभावभानम् । रजतत्वेन शुक्तिं जानातीत्यादौ नियतं केवलमेकत्र द्वयमितिरोत्या तदुभयबोधस्य तत्राव्युत्पन्नत्वात् । अत इमे शुक्तिरजते इत्यादिप्रमापरस्य तादृशवाक्यस्य न प्रामाण्यम । घटत्वाचवच्छिन्नवलथभावनिष्ठेन वययभावादिनिरूपितानुयोगिताविशेषरूपवहयाद्यभावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यावच्छेद्यावच्छेदकभावः स्वोकियते । घटत्वेन वह्नयाद्यभावस्य वह्नित्वावच्छिन्नघटाद्यभावसमनियतत्वेन तदभिन्नतया तत्र घटत्वाद्यवच्छिन्न प्रतियोगिताकत्वघटाद्यभावत्वसत्वेऽपि तादृशार भावपरस्य घटत्वेन घटो नास्ति, वह्नित्वेन वह्नि स्तोत्यादिवाक्यस्य न प्रामाण्यम् । विधेयत्वमिति ।
पर्वते वह्विरित्यनुमितौ वह्निव्याप्यधूमः पर्वते इति परामर्शाऽनन्तरं विशेप्यस्य वहेरेव विधेयत्वात् विधेयतात्वं प्रकारत्वविशेष्यत्वाम्यां विलक्षणम् । सर्वेषु घटेषु रूपमिति वाक्यार्थादपि निश्चीयते प्रकारत्वं विशेष्यत्वञ्च न विधेयतोद्देश्यतयोः । तथाच उद्देश्यस्य विशेष्यत्वं विधेयस्य प्रकारत्वमिति नियमस्सार्वत्रिको नास्त्यपि तु उद्देश्यत्वं विषयताविशेष एव । विधेयत्वञ्च विषयताविशेष एवाधिकन्त्वस्मत्कृतपरिष्कारदर्पणे द्रष्टव्यम् ।
ताहशवाक्यस्य-रजतस्वेन शुक्तिमानातीत्यस्य । । अवच्छेद्यावच्छेदका