________________
शास्त्रार्थकलोपस्कृतः ।
२३५ चैत्रादेरतीतचाक्षुषस्य घटादिविषयकत्वेऽपि समयविशेषे चैत्रो घटं न पश्यतोतिप्रयोगाद्वतमानतादृशचाक्षुषत्वाद्यवच्छेदेन उभयाभावभानस्थ प्रतियोगिकोटौ वर्तमान वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभानस्य वा स्वोकरणीयतया यदा किंचिदंशेऽलौकिकमेव घटादिचाक्षुषं तस्य वर्तते तदा चैत्रो घटं न पश्यतोत्यादिप्रयोगापत्तेदुर्वारत्वात् वर्तमानालौकिकविषयताशून्य चाक्षुषत्वाद्यवच्छेदेन चैत्रवृत्तित्वघटविषयकत्वोभयामावसत्त्वात् ।
समानेन्द्रिय जन्योपनोतभानादौ लौकिकप्रत्यक्षसामग्रथा विरोधित्वस्य निष्प्रामाणिकतया लौकिकविषयतानियामकोपनायकज्ञानादिसमवहिततल्लौकिकसन्निकर्षाद्, घटादिनिरूपितलौकिकालौकिकोभयविषयताशालिचाक्षुषादेरुत्पत्त्या ताश चाक्षुषादिदशायामुक्तप्रयोगापत्तेः । आकाशादिनिरूपितालौकिकवियिताशालिवर्तमानचाक्षुषाचंशे घटादिवृत्तित्वम्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रमदशायां घट आकाशं पश्यतोत्यादिवाक्याच्छाब्दबोधापत्तेदुर्वारत्वाच्च घटादिनिरूपितालौकिवियिताशन्य चाक्षुषत्वाद्यवच्छेदेन घटादिविषयित्वाघटि. तोभयाभावभानोपगमेऽप्यनिस्तारात ।
एतेनाख्यातार्थवतमानत्वाद्यवच्छिन्नसमवायावच्छिन्नाश्रयत्वाधवच्छिन्ने भाकाशादिविषयकप्रतियोगिकत्वलौकिकान्यविषयताशून्य चाक्षुषप्रतियोगिकस्वघटाद्यनुयोगिकत्वैतस्त्रितयत्वावच्छिन्नाभाबो भासतेऽतोऽभाव आकाश न पश्यतीत्यादौ नानुपपत्तिः । तत्र विषयितावत्प्रतियोगिकत्वं द्वितीयार्थः ।
निरुक्तचाक्षुषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः । घटाद्यनुयोगित्व 'च प्रथमान्तार्थ इत्यपि निरस्तमिति चेत् ? अगत्या घट बाकाशं न पश्यतीत्यादिवाक्यानामप्रामाण्यमुपगन्तव्यमिति ॥ इति प्रथमखण्डम् ।। कत्वलक्षणमिति गूदाशयः।
समयविशेष इति-यस्मिन्काले घटप्रत्यक्षन्नास्ति तदेति मानसम् । उपना. यकज्ञानादीति-उपनीतभानजनकशानादीत्यर्थः। तत्तल्लौकिकसन्निकर्षादीति-. घटविषयकलौकिकसनिकर्षादीति। विर्षायतावत्प्रतियोगिंकत्वमिति-नात्र साहइये वतिः किन्तु विषयिताश्रयप्रतियोगिकत्वमित्याशयः। निरुक्तचाक्षुषेति-लौकिकान्यविषयिताशून्यचाक्षुषेत्यर्थः ।
इति प्रथमखण्डः।