________________
२३४
व्युत्पत्तिवादः। इत्यादिवाक्यजन्यशाब्दबोधोत्पादोऽनुभवसिद्धः, तथैवोक्तभ्रमदशायामाकाशं न पश्यति घट इत्यादिवाक्यजन्यबोधोत्पादोऽपोति न तवेष्टापत्तिः संभवति । यञ्चालौकिकविषयत्ताशून्यचाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्वघटादिवृत्तित्वोमयाभाव आकाशं न पश्यतीतिवाक्याप्रतीयते, चपनीताकाशादिविषयकचाक्षुषे आकाशादिविषयकत्वचैत्रादिवृत्तित्वोभयसत्त्वेन चैत्र आकाशं न पश्यतीत्यादिप्रयोगानुपपत्तिः । घटादौ ताशचाक्षुषाद्याश्रयत्वभ्रमदशायां घट आकाशं न पश्यती तवाक्याच्छाब्दबोधानुपपत्तिश्चेत्यलौकिकविषयताशून्यत्वेन पाक्षुषादिकं विशेषितम् । आकाशविषयकचाक्षुषाद्युपनोतभानस्यापीतरांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यम् । अतो लौकिकविशेषणमुपेक्षितम् । अत्रालौकिकविषयताशून्यचाक्षुषत्वाद्यवच्छिन्नस्य घटं न पश्यतीत्यादौ शक्त्या धात्वर्थत्वासम्भवेऽपि प्रकृते तस्य लक्षणया धात्वर्थत्वमुपेयते, विषयतासामान्यमेव तत्र द्वितीयार्थः निरूपकत्वमपि लक्षणया तदर्थः । आश्रयत्वं द्वित्वं निरूपकत्वं चाख्यातार्थ: । श्राश्रयत्वे व्युत्पत्तिवैचित्र्याप्रथमान्तपदार्थघटादेः तस्य निरूपकत्वे विशेषणतयान्वयः। तादृशनिरूपकत्वाद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वान्वयः, द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसम्बन्धेन तादृशोभयस्य नबर्थाभावे तस्यान्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन धात्वर्थेऽन्वयः। धात्वर्थस्य प्रकृते मुख्यविशेष्यतयैव भानम् । __ अथवा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्याफ्कतासम्बन्धेन धात्वर्थस्य तादृशोभयाभावेऽन्वयः। तस्य चाख्यातार्थनिरूपकस्वे, तस्य च प्रथमान्तपदार्थ घटादौ, घटादेः प्रतियोगितावच्छेदकघट: कतया तादृशाभावनिरूपकत्वात् । एवं चान्वयबोधस्य प्रयमान्तपदाथैमुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । तदपि न? घटादिविषयकचाक्षुषादेः कालिकादिसम्बन्धेन घटादिवृत्तितया पटो घटं न पश्यतीति प्रयोगानुपपत्तेः श्राकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालि. कादिसम्बन्धेन घटादिवृत्तित्वनिश्चयदशायां घट आकाशं न पश्य तीतिवाक्याच्छाब्दबोधानुपपत्तेश्च । समवायेन घटादिवृत्तित्त्वाकाशादिविषयकत्वोभयाभावस्यैव स्वीकरणीयतया अभाव आकाशं न पश्यतीत्यादी अभावसमवेतत्वाप्रसिद्धया वाक्यार्थाप्रसिद्धेर्दुरित्वात् । वे सम्भवति कथम्परित्याग इत्यभिप्रायेणाह अथवेति । यत्र व्याप्यतावच्छेदकसम्बन्धस्तादात्म्यन्तत्र तेनैव सम्बन्धेन स्वाश्रयस्वयमेव । अत एवात्र स्वाश्रयनिछान्योन्याभावघटितं व्यापकत्वलक्षणं विहाय स्वनिष्ठान्योन्याऽभावघटितमेव व्याप