________________
२३३
शास्त्रार्थकलोपस्कृता पगन्तव्यम् । तादृशबोधश्च लौकिकविषयतात्वसामानाधिकरण्यमात्रेणाकाशादिनिरूपितत्वाभावावगाही दशित योग्यताज्ञानाप्रतिबध्य एव । न च मैत्रीयचाक्षुषादिनिरूपितलौकिकविषयतात्वावच्छेदेनैत्र तारशाभावी दर्शितवाक्येन प्रत्याय्यते इति चैत्रीयचाक्षुषादिनिरूपितलौकिकविषधितायां श्राकाशीयत्वाद्यवगाहि चैत्र आकाशं पश्यतीतिवाक्यजन्यवोधः प्रतिबध्नास्येव तादृशवाक्यजन्य धिमिति वाच्यम् ? __ ताहशविषयितात्वेन वियिताया अनुपस्थितेस्तदवच्छेदेनाभावप्रत्यायनासम्भवात् चैत्र आकाश पश्यतीतिवाक्यजन्यबोधे चैत्रांशे दर्शनाश्रयत्वं विशेषणं दर्शनांशे लौकिकविषयिता विशेषणमित्तिरोत्यैव पदार्थानां ज्ञानात् चैत्रीयचाक्षुषादिनिरूपितविषयित्तात्वं नाकाशादिधर्मितावच्छेदकं, किन्तु शुद्धलौकिकविषयितात्वमेवेति तस्य शुद्धलौकिकविषयितात्वावच्छेदेनाकाशाद्यभावावगाहिज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधर्मावच्छेदेनाकाशाद्यभावावगाहिज्ञानस्य तदप्रतिबध्यत्वाच्च ।।
एतेन तत्राकाशादिपदस्याकाशादिनिरूपितत्वार्थकतां द्वितीयायाः खण्डशो निरूपितत्वलौकिकविषयतास्वोभयार्थकतां वा स्वोकृत्य लौकिकविषयिताया आश्रयतासम्बन्धावच्छिन्नप्रतियोगिताकतदभावोपगमेनापि न निस्तारः। घट आकाशं न पश्यतीत्यादी नितरामेवातिः! ___ यत्त नबर्थस्य द्विधा भानोपगमेन भाकाशादिनिरूपित्तत्वाभाववक्लौकिकविषयताशालिचाक्षुषाश्रयत्वाभाववान् घट इत्याकारकस्तत्रान्वय इति । तदपि न ? तथा सति चैत्रो घटं न पश्यति मैत्र आकाशं न पश्यतीत्यादिवाक्यजन्यशाब्दबोधादविलक्षणबोधस्य सर्वानुभवसिद्धस्य ताशवाक्यादनुपपत्तेः। न हि तत्रापि तादृश एव शाब्दबोधः । तथा सति चैत्रो यदा घटादिकं न पश्यत्यपि तु पटादिकमेव तदा घटाय. निरूपिततल्लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावस्य तत्र . बाधात् चैत्रो घटं न पश्यतोति प्रयोगानुपपत्तेः। यदा च भावमात्रं पश्यति तदा भावनिरूपितलौकिकविषयताशालिचाक्षुषाश्रयत्वाभावसत्त्वात् भावं न पश्यति चैत्र इत्यादिप्रयोगापत्तेः । एवमाकाशं न पश्यति घट इत्यादौ आकाशाद्यनिरूपितलौकिकविषयताशालिचाक्षुषाश्रयत्वाभाबस्य वाक्या. थत्वे यदाकाशाद्यतिरिक्तपटादिविषयकचाक्षुषाश्रयत्वनिश्चयरूपप्रतिबन्ध. कसत्त्वेन तादृशवाक्यजन्यशाब्दबोधानुपपत्तिः!
यथा चैत्रो घटं पश्यतीत्यादिनिश्चयदशायां घटं न पश्यति चैत्र निरुक्तधर्मावच्छेदेनेति । . अलौकिकविषयिताशून्यचाक्षुषत्वावच्छेदेनेति भावः । ननु प्रथमान्तार्थस्य मुख्य