________________
.२३२
व्युत्पत्तिवादः सिद्धया आकाशं न पश्यतीत्यादौ चाकाशादिनिरूपितलौकिकविषयिताया एवाप्रसिद्ध्या तादृविषयिताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थाप्रसिद्धिः।
नच सौरभं न पश्यतोत्यादौ सौरभादिनिरूपितलौकिकविषयित्वाभावा चाक्षुषादौ प्रतीयत इति वाच्यम् ? एवमप्याकाशं न पश्यतीत्यादावप्रतीकारात् । न च लौकिकविषयितायां निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावः प्रसीयत इति वाच्यम् ? वृत्त्यनियामकसम्बन्धस्य संसर्गाभावप्रतियोगितानवच्छेदकतया तादृशाभावस्याप्रसिद्धः।
एतेन निरूपकतासम्बन्धेन चाक्षुषादि निष्ठलौकिकविषयिताया अभाव. स्तत्राकाशादौ प्रतीयते इत्यपि निरस्तम् ।
अन्वयबोधस्य प्रथमान्तार्थमुख्यविशेष्यकतायाः सर्वानुभवसिद्धाया भङ्गप्रसङ्गाचच चाक्षुषादिनिष्टलौकिकविषयितात्वावच्छिन्नस्य पदाद्वाक्याञ्चानुपस्थितत्वात्तदभावस्थाकाशादौ भानासम्भवाच । भावान्वयबोधे च लौकिकविषयिताप्रकारेण चाक्षुषादेर्भानात् । अभावान्वयबोधे चाक्षु. षप्रकारेण तस्या भानमयुक्तम् ।। __ अस्तु वा वृत्त्यनियामकोपि सम्बन्धोऽभावप्रतियोगितावच्छेदकस्तथापि निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्य विषयिताविशेषनिष्ठाकाशाद्यभावस्य भानोपगमो न सम्भवति ? तथा सति आकाशं पश्यति चैत्र इत्याकारकवाक्यजन्यबोधदशायाम् आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । आकाशं पश्यति मत्र इत्यादिभ्रमदशायां खाकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधस्य दुरपडवतया, लौकिकविषयतात्वसामानाधिकरण्येनैव तादृशाभावबोधकं तद्वाक्यम. गाऽभावेति। ___ मानमयुक्तमिति-नत्रपदं विना यादृशसमभिव्याहारस्थल इति न्यायानुसन्धानात्। आकाशम्पश्यतीति । ____ अवच्छेदकावच्छेदेन तदभाववत्तानिश्चयम्प्रति सामानाधिकरण्यसम्बन्धेन तद्वतानिश्चयस्याऽपि प्रतिबन्धकत्वनियमेन लौकिकविषयितात्वसामानाधिकरण्येन आका. शप्रकारकज्ञानम्प्रतिबन्धकम् । एवञ्च लौकिकविषयितात्वावच्छेदकावच्छेदेन निरूपित. त्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाऽभावविषयकबोधाऽप्रसक्तेराकाशन्न पश्यति चैत्र इति अनुभवसिद्ध इति प्रतिबन्धकविरहादिति योजनीयम् ।