________________
२३१
शाखार्थकलोपस्कृतः विच्छिन्नविषयतानिरूपितप्रकारितैष द्वितोयार्थस्तस्याश्च गन्धनिरूपितली. किकविषयिताशालिप्रत्यक्षात्मकधात्वथैकदेशे विषयितायां निरूपितत्वसम्ब. न्धेनान्वयः। तेन इदानान्तनपुष्पे गन्ध इत्यादिप्रत्ययस्याधेयतासंसर्गण कालादिप्रकारकत्वेऽपि ताशप्रत्यक्षदशायां न काल जिघ्रतीत्यादिप्रयोगः । ताहशज्ञानीयगन्धादिविषयित्तायां कालादिप्रकारतानिरूपितत्वविरहात् । अत एव "तदाननं मृत्सुरभि क्षितीश्वरो रहः समानाय न तृप्तिमा यौ" । "आघ्रातवान् गन्धवहं सुगन्धमि" त्यादौ च उपाधिनिष्ठगन्धग्रहतात्पर्येणैव जिघ्रतेः प्रयोगात्। ताशगन्धे च माननगन्धवहादिवृत्तित्वस्य बाधेऽपि न क्षतिः ।
तादृशगन्धस्याननाद्यवृत्तित्वेऽपि आनने गन्ध इत्याकारकबोधीयगन्धधि. विषयताया आननादिप्रकारतानिरूपितत्वेन वाक्यार्थावाधात् । वाय्वानीतचम्पकगन्धस्य यत्र वारवादिवृत्तित्वेनैव ग्रहः, तत्र चम्पक जिघ्रतीत्यादिप्र... योगो नेष्यत एव ।
यत्तु आधेयतामात्रं द्वितीयार्थः, न तु समवायावच्छिन्नत्वविशेषितमा. धेयत्वम् । तथा च मुखादिसंसृष्टमृत्तिकादिगन्धे परंपरासम्बन्धेन मुखादिवृत्तित्वस्य सत्त्वाद् न ताशस्थलेऽनुपपत्तिरिति । तदसत् । तथा सति कालं जिघ्रतोति प्रयोगस्य दुर्वारत्वात् । पुष्पमाघ्रायते इत्यादौ च निरुक्तप्रकारत्वमाख्यातार्थः । आश्रयतासम्बन्धेन पुष्पाद्यन्विते तस्मिन् धात्वर्थप्रत्यक्षस्य निरूपित्तत्व सम्बन्धेनान्वयः । एकधर्मिवि. शेषणतयोपस्थितस्य स्वातन्त्र्येणान्यविशेषणतयान्वयबुद्धरेवाव्युत्पन्नत्वात् । __ अत्र च प्रत्यक्षपारतन्त्रयेणव गन्धविषयिताया आख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । अस्तु वा गन्धः लौकिकविषयताप्रत्यक्षं च विशकलितमेव धातारथः। काख्यातादिसमभिव्याहारे गन्धविषयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसमभिव्याहारस्थले च प्रत्यक्षविशेष्यतयेति न कश्चिदोषः । जिघ्रत्यर्थगन्धविर्षायतानिरूपितनिरुक्तप्रकारितानिरूपकत्वमेव पुष्पादिनिष्ठं जिघ्रतिकर्मत्वमिति दिक।
अथ दृश्यादिसमभिव्याहृद्वितीयाया लौकिकविषरितार्थकत्वे सौरभ न पश्यतीत्यादौ सौरभादिनिरूपित लौकिकवियिताशालिचाक्षुषाद्यप्र
स्तत्सम्बन्धावच्छिन्नप्रकारतेत्यभिमतम् ।
वास्वानोतेत्यादि-नेष्यत एवेति, तत्र वायुजिघ्रतीत्येव प्रयोगस्सार्वजनीनः । ननु यत्र किमपि ज्ञानन्नास्ति सुषुप्तिदशायान्तत्राऽपि देवदत्तस्सौरभन्न पश्यतीति प्रयोग इष्टो वृत्त्यनियामकस्य तादात्म्यसम्बन्धस्य भेदीयप्रतियोगितावच्छेदकत्वात्तदेवाह संस