________________
२३०
व्युत्पत्तिवादः। चागुरुतया किंधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् एकस्मिन् प्रयोगे भूयस्त्वमप्यशक्यनिर्णयमिति तत्रापि शक्तिः सिद्धथती. त्यवधेयम् । चैत्रेण ज्ञायते घट इत्यादौ कर्माख्यातस्थले आख्यातेन घटादौ धास्वर्थनिरूपितविषयत्वं बोध्यते । चाक्षुषत्वाद्यवच्छिन्नवाचकद्दश्यादिसमभिव्याहृद्वितीयाया लौकिकविषयित्वं, तादृशकर्माख्यातस्य लौकिकविषयत्वमर्थः। उपनीतसौरभादिविषयकसुरभिचन्दनमित्याद्याकारकचाक्षुषाविदशायां सौरभं पश्यतीति, सौरभं दृश्यते इत्याद्यप्रयोगात् । __ अथैवं पुष्पं जिघ्रतीत्यादिप्रयोगानुपपत्तिः घ्राणजप्रत्यक्षस्य पुष्पाद्यंशे लौकिकत्वविरहात्। तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्यथार्थत्वे गन्धसाक्षात्कारे उपनयमर्यादयाकाशादिभाने आकाशं जिघ्रतीतिप्रयोगप्रसंगेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वादिति चेन्न ? घ्राधातोहि गन्धलौकिकप्रत्यक्षत्वं शक्यतावच्छेद कं, घ्रा गम्धोपादाने इत्यनुशासनात् । तत्समभिव्याहृतद्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थंकदेशे नान्वयः । एवं च पुष्पं जिघ्रतीत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयतावानित्याकारक एव शाब्दबोधो न तु पुष्पनिरूपितलौकिकविषयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुषपत्तिः ।
नचैवं सविषयार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयि. तार्थकत्वनियमभङ्गप्रसङ्ग इति वाच्यम् ? विषयानवनिछन्नताशवस्त्वभिधायकधातुसमभिव्याहृतकर्मप्रत्ययस्यैव तदर्थकत्वनियमात् । अस्य च गन्धात्मकविषयावच्छिन्न प्रत्यक्षवाचकतया ताशनियमस्यावाधित. त्वात् । न च घ्राधातुसमभिव्याहृतद्वितीयाया गन्धान्त्रिताधेयत्वार्थको त्वे आमोदमुपजिघ्रतीत्यादेरनुपपत्तिः, गन्ध विशेषरूपामोदपदार्थाधेयत्वस्य गन्धे बाधादिति वाच्यम् ? विषयावच्छिन्नप्रत्यक्षार्थकघ्राधातुसमभिव्याहृतद्वितीयाया एव आधेयतार्थकत्वनियमात् । तत्र विषयान वच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया धात्वर्थतोपगमेन विषयिताया एव तदर्थत्वात् । वस्तुतस्तु पुष्पं जिघ्रतीत्यादौ समवायसम्बन्धावच्छिन्नाघेयत्वसंस
उपनीतेति-उपनयश्च ज्ञानलक्षणप्रत्यासत्तिरेव तज्जन्यज्ञानविषय उपनीतः । उपयन मर्यादया ज्ञानलक्षणप्रत्यासत्त्येति हृदयम् । । व्युत्पत्तिवैचित्र्येणेति-ध्राधातुजन्योपस्थितिविषयीभूतगन्धातिरिक्तस्थले “पदार्थः पदार्थनाम्वेतीति" नियम इति भावः । समवायसम्बन्धावच्छिन्नेति-समवायसम्बन्धावच्छिन्नं यदायत्वम्पदार्थ