________________
शास्त्रार्थकलोपस्कृतः।
२२९ गजनकक्रियाश्रयत्वस्याबाषितत्वादितिवाच्यम् ? विहगो विहगं गच्छतीस्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां जनकत्वस्वाश्रयनिष्प्रभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनान्वयोपगमात् , विहगनिष्ठक्रियायास्तद्विगनिष्ठसंयोगजनकत्वेन तज्जनकतासम्बन्धेन तत्सं. योगवश्वेऽपि विहगवृत्तित्वविशिष्टतत्संयागायतद्विहाननिभेदप्रतियोगितावच्छेदकस्वाभावान्नोत्तोभयसम्बन्धेन विशिष्टसंयोगस्वमित्यनतिप्रसङ्गात्।
एवं सति परसमवेतत्वं सम्बन्धघटकमेव न तु द्वितोयार्थ इति चेत् का क्षतिः ? विहगो विहगेन गम्यते इत्यादावपि जन्यत्वस्वावन्छिन्नभेदसामानाधिकरण्योभयसम्बन्धेन क्रियायाः संयोगेऽन्वय इष्यते, तत्त. स्क्रियावच्छिन्नभेदवति भूभ्यादावेव तादृशभेदसामानाधिकरण्यसम्बन्धेन तत्तरिक्रयाविशिष्टसंयोगादिमत्त्वोपगमात्, तत्र तरिक्रयाश्रयविहगे तद्वाधेन नातिप्रसङ्ग इति ध्येयम् । . ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयायाः प्राचीनमते निरूपकतासम्बन्धेन धात्वर्थान्वयि विषयत्वमर्थः। तत्र प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानबच्छेदकतया घट जानाति पटं नेत्यादावनुपपत्तेस्तत्र विषयित्वार्थकत्व. मेव नवोना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरूपित्तत्वसम्बन्धेन, सस्य च धात्वर्थ अश्रयतासम्बन्धेनान्वयः । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयित्वमेव । विषयित्वादौ च द्वितीयाया लक्षणेव न तु शक्तिरिति सांप्रदायिकाः। ___ वस्तुतस्तु विषयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्यपेक्षया
विषयित्वार्थकत्वमेवेति । यथा विषयत्वं स्वरूपसम्बन्धविशेषः अखण्डोपाधिों प्रकारत्वविशेष्यत्वावच्छेदकत्वसंसर्गवादीनि विषयताविशेषाः तद्वत् विषयित्वमपि ।
नच विषयतानिरूपकरवं विषयित्वमिति कुतो नेति वाच्यम् ? विषयितानिरूपकरवम्विषयत्वमित्यस्याऽपि पर्यनुयोगत्वात् ।
ज्ञानविषयातिरिक्तज्ञानादिनिरूपितधर्मविशेषो विषयतेति लक्षणं विषयतावादे । अत्र विशिष्टशास्त्रार्थस्तु अस्मस्कृतपरिकारदर्पणे द्रष्टव्यः । निर्विषयज्ञानन्न भवति शानस्य सविश्यकत्व नियमात् । विषयासविषयको न भवति घटविषयो ज्ञानमिति न भवति, किन्तु ज्ञानविषयो घट इत्येवन्तत्र प्रकारः। चैत्रो घटञ्जानातीत्यत्र घटनिरितविषयितावजज्ञानाश्रयश्चैत्र इतिशाब्दबोधः ।