________________
व्युत्पत्तिवादः ।
तस्य च धात्वर्थेऽन्वयः । परत्वे चैकदेशेऽपि आकाङ्क्षावैचिन्यात् प्रकृत्यर्थस्य प्रतियोगितयान्वयः । एवं च प्रामं गच्छति चैत्र इत्यादौ प्रामभिन्नसमवेता ग्रामनिष्टसंयोगजनका या किया तदाश्रयतावांक्षेत्र इत्यन्वयबोधः । स्वनिष्टसंयोगजनक क्रियायां स्वभिग्नसमवेतस्वस्य बाधात्स्वमात्मानं गच्छतीति न प्रयोगः । यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मरुलान्तरसमवेतक्रियाया: स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृशक्रियाश्रयतायाः स्वस्मिन् बाधाद् मल्लः स्वं गच्छतीति न प्रयोगः । न च स्वनिष्ठसंयोगजनकम्वसमवेत क्रिथायां स्वभिन्नसमवेतत्वस्यायोग्यतया तदभानेष्यबाधितं स्वनिष्ठसंयोगजनकत्वं विषयोकृत्य शाब्दबोधसम्भवात् तदर्थमात्रतात्पर्येण स्वं गच्छतीति प्रयोगो दुर्वार एवेति वाच्यम् ? परसमवेतत्वाविषयकस्य द्वितीयाधोनफलजनकत्वबोधस्य कुत्राप्यनभ्युपगमने तादृशबोघे तद्भासकसामप्रथा अप्यपेक्षणीयत्वात् ।
२२८६
दु
अथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् स्वं गच्छतीति प्रयोगस्य वरितया द्वितीयाप्रकृत्यर्थत्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताक कत्वसम्बन्धेनैव भेदेऽन्वयो बोध्यः । तथा च चैत्रो द्रव्यं गच्छति, भल्लो मल्लं गच्छतीत्यादिवाक्यस्थाप्रमाणतापतिः । चैत्रमल्लादिनिष्ठक्रियायां प्रकृत्यर्थतावच्छेदकीभूत द्रव्यत्व मल्लत्वाद्यवच्छिन्नभिन्नासमवेतत्वात् तद्वन्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तद्वयक्तित्वावच्छिन्नप्रतियोगितासम्बन्धेनान्वयोपगमासम्भवात् उक्तयुक्त्या सम्बन्ध घटको पस्थितेरपि शाब्दबोधेऽपेक्षितत्वात् । एकधर्मावच्छिन्नसंसर्गत्वे मानाभावाच्च प्रतियोगि विशेषताभावबुद्धेविशिष्टवैशिष्टयावगाहित्व नियमात् । अन्वयितान बच्छेदकावच्छिन्नप्रतियोगितायाः सम्बन्धत्वासम्भवाच्चेति चेत्तहि, क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु । भेदे प्रकृत्यर्थं स्याधेयतासम्बन्धेनान्वय इति न काचिदनुपपत्तिः ।
न चैवमपि विहगो भूमिं प्रयातीतिवद्विगो विहगं गच्छतीति प्रयोगो दुर्वारः । विनिष्ठभूमिसंयोगजनकतत्क्रियाया विहगान्तरनिष्ठ भेदप्रतियोगितावच्छेदकतया विगनिष्ठ भेदप्रतियोगितावच्छेदकविहगवृत्तिसंयो
त
उक्त युक्त्येत्यादीति ।
तत्सम्बन्धावच्छिन्न तद्धर्मावच्छिन्नप्रकारतानिरूपिततत्तद्धर्मावच्छिन्न विशेष्यताकबोधविषयकत्वेनैव तात्पर्यज्ञानस्य कारणत्वं वाच्यम् । तत्र सम्बन्धस्य विशेषणतया भानम् तद्घटकोपस्थितिरपेक्षणीयेवेति तत्त्वम् ।