________________
शास्त्रार्थकलोपरकृतः घटत्वे प्रकारताख्यविषयतासत्त्वात् द्वन्द्वप्राप्स्सौष्ठवात् अपवादत्वकथनं सयुक्तिकमेवेतिव्याख्यानात् । किञ्च घटा इत्यत्रैकशेषाऽभावेऽपि बहुघटबोधनसत्त्वदशायाम्बिव. क्षितबहुत्वान्वयादेव बहुघटबोधसम्भवात् । सरूपैकशेषविधिस्तु सिंहत्वसूर्यत्वकपित्वविष्णुत्वाद्यनेकपदार्थतावच्छेदकभेदे हरयस्तिष्ठन्तीत्यादौ चरितार्थ इत्याशयात् । तथा च नीलघटयोरभेद इत्यादी नीलवघटत्वयोर्मेंदादेव द्वन्द्व एवं सर्वत्रापि बोध्यम् । ___ नच कचित्पदार्थभेदे द्वन्द्वः कचित्पदार्थतावच्छेदकभेदे द्वन्द्व इतिन्यायसिद्धान्तो दिनकामुक्तःकथन्नाद्रियते तावताऽपि पूर्वोक्तदोषोद्धारादिति वाच्यम् ? पदार्थतावच्छेदकभेदस्य द्वन्द्वनियामकत्वे एकस्मिन्नपि पुंसि दण्डिकुण्डलिनी गच्छत इतिप्रयोगाऽपत्तेः । पदार्थतावच्छेदकदण्डकुण्डलादिभेदस्य सत्त्वात् । नच द्वित्वानन्वयश्शङ्कयः ? नीलबटयोरभेद इत्यादाविव पदार्थतावच्छेदके तदन्वयसम्भवात् । तथा च पदार्थभेदे द्वन्द्व इतिनिश्चितम्मतम् । __ वैयाकरणमते तु षोढा प्रातिपदिकार्थ इति शब्दोऽपि शाब्दबोधे भासत इतिनियमानुरोधेन नीलघटयोरभेदः अप्येकदन्त हेरम्ब इत्यादौ च नीलादिपदोपस्थाप्यघटादि. पदोपस्थाप्ययो देन पदार्थभेदाद् द्वन्द्वस्सुतराम् । अत एव"असुरा दैत्यदेतेयदनुजेन्द्रारिदानत्रा" इत्यादी "विरूपाणामपि समानार्थानामि ति एकशेषो न भवति ? समानप्र. वृत्तिनिमित्तकस्यैव समानार्थकत्वात् । संज्ञाशब्दे द्रव्यस्यैव प्रवृत्तिनिमित्तत्वात् । एवञ्च इन्द्रपदवदभिन्नो मधवानितिबोधस्तथा च पदार्थभेदे द्वन्द इतिसिद्धम् ।।
"भूवादयो धातव'' इतिपाणिनिसूत्रे तु भूरिव वा भूवा वा इव क्रियावाचको भूः भूवा स आदियेंषान्ते भूवादयः, भूवादयश्च भूवादयश्चेत्येकशेषेण द्वन्द्वानुपपत्तिशङ्कव नोदेति । एतेनैकपदोपस्थाप्यार्थस्य परस्परम्भेदेनान्वयविरहेण द्वन्द्वाऽसङ्गतिरिति परास्तम् । सादृश्यप्रतियोगितावच्छेदकविशिष्टधर्मेण साहश्यमितिनियमः । नह्यब्राह्मणमान
सादृश्यप्रतियोगितावच्छेदकव्यापकेति-सादृश्यप्रतियोगितावच्छेदकधर्मव्यापकीभूतधर्मेण साह. इयं गृह्यते इतिनियमो हि लौकिकप्रत्यये चन्द्रवन्मुखमित्यादौ क्लप्तः । सादृश्यं हि तन्द्रिनत्वे सति तद्गतभूयोधर्मवस्वम् । तद्भिन्नस्सन् तद्गता ये भूयांसो धर्मास्तादृशधर्मवान् यस्स तत्सादृश्यवान् (सदृशः) उच्यते । यथा चन्द्रभिन्नं सत् मुखं चन्द्रवृत्त्यालादकरवरूपभूयोधर्मवदपि इति भवति तत्सदृशम् । ननु चन्द्रवृत्तिर्भूयान् धर्मश्चन्द्रत्वमेव नान्य इति तेन सादृश्याश्रयणे चन्द्रत्वस्य मुखेडमावात् कथं चन्द्रवन्मुखमिति चेन्न ? सादृश्यप्रतियोगितावच्छेदकेतिप्रसिद्धनियमेनात एव समाश्रितेन सादृश्यब्यवस्थितेः । यस्य सादृश्यं कुत्रचित् नीयते तद सादृश्यस्य प्रतियोग्युच्यते,यत्र ष नीयते तत् सादृश्यस्यानुयोग्युच्यते । चन्द्रप्रतियोगिसादृश्याश्रयोमुखमितिबोधः । तत्र निय घटनन्वित्थम् , सादृश्यप्रतियोगी चन्द्रःप्रतियोगिता चन्द्रनिष्ठा प्रतियोगितावच्छेकं चन्द्रत्वन्तद्व्याप. कीभूतो धर्म आह्वादकत्वन्तादृशधर्मवत्वम्मुखे इति । तथा च प्रकृते 'भूवादय' इत्यत्र सादृश्यप्रतियोगितावच्छेकवात्वव्यापकासत्ववाचिस्वेन सादृश्याश्रयणमेव युक्तन्नत्वतादृशेन क्रियावाचकत्वेनेति चेन्न ? वाऽव्ययसाहचर्यादसस्ववचनस्य भुवो ग्रहणम् , असत्ववचनभूसाहचर्यात् क्रियावाचिनो वाशब्दस्य ग्रहणम् । क्रियावाचिवासादृश्यस्य क्रियावाचकत्वेन ग्रहणमिति परस्परसाहचर्याश्रयेण
..............