________________
२०४
व्युत्पत्तिवादः येतिकथने लोष्टमानीय कृती भवतीति भाष्यम् । वैशिष्ट्यश्च स्वनिष्ठव्याप्यतानिरूपित्तव्यापकतावत्त्व स्वनिष्ठव्याप्यतानिरूपिता या व्यापकता तादृशव्यापकतानिरूपिता या व्यापकता तादृशव्यापकतानाश्रयत्वमित्त्युभयसम्बन्धेन । ब्राह्मणत्वव्याप्यन्तन्निरूपितव्यापकता मनुष्यत्वे तन्निरूपिता व्यापकता द्रव्यत्वे तदनाश्रयत्वम्मनुष्यत्वेऽतस्तेन सादृश्यम् । व्याप्यता वाशब्दत्वे तन्निरूपितव्यापकता भूवागतान्यतरशब्दत्वे तन्निरूपितव्यापकता क्रियावाचकत्वे तदाश्रयत्वमेव न अनाश्रयत्वम् । अतस्त्वनिष्ठव्याप्यता वाशब्दत्वे तन्निरूपितव्यापकता भूवेत्यन्यतरपरित्यागेन क्रियावाचकत्वे तन्निरूपितव्यापकता शब्दत्वे तदनाश्रयत्वं क्रियावाचकत्वेऽत एव क्रियावाचकत्वेन सादृश्यम् इति केचित् तन्न ? व्यापकतानिरूपितव्यापकतायास्ससायामपि प्रमेयत्वेऽपि सत्वेन तदाश्रयत्वमेवेति नायम्प्रकारः । तथा च सादृश्यप्रतियोगितावच्छेदकधर्मव्यापकधर्मेणैव सादृश्यमित्येव नियमोऽधिकमस्मत्कृतकौमुदीकल्प्रलतिकाख्यटीकायां द्रष्टव्यम् । परामर्श इति---विचार इति तदाशयः ।
इति श्रीत्रिकोणयन्त्रसन्निभकाशीप्रयागायोव्याख्यतीर्थत्रयमध्यभूमि (उदयपुर बदलापुर जौनपुर ) जन्मश्रीसरयूपारीणशक्लकौमुदीकरपलतिकापरिष्कारदर्पणपरिभाषेन्दुशेखरशास्त्रार्थकलाद्यनेकप्रन्यकृवैयाकरणशिरोमणि घटिका
शतकशतावधान-संस्कृताशुकविचक्रवर्तिपण्डितराज-श्रीवेणो. माधवशास्त्रिविरचितशास्त्रार्थकलासहितव्युत्पत्तिवादे
प्रथमाकारकं समाप्तम् ।
निर्वाहसम्भवात् । इतोऽपि विशिष्टश्शास्त्रार्थो मतकृतपरिष्कारदर्पणाख्यग्रन्धोयटिप्पणीतोऽनुसन्धेयशास्त्रार्थिभिरिति ।