________________
शास्त्रार्थकलोपस्कृतः।
२०५ कर्मणि द्वितीयेत्यनुशासनात्कर्मत्वं द्वितीयार्थः ।
तत्र कर्मषदस्य धर्ममात्रपरत्वात् । कर्मणश्च न तथात्वम् , कर्मणि ना. मार्थस्य प्रामादेरभेदान्वयसम्भवेऽपि धात्वर्थगमनादिना तदन्वयासम्भवाद् गौरवाच्च ।
अथ द्वितीयाकारकम । द्वितीयाविभक्तयर्थनिरूपणमारभते कर्मणोति । "कर्मणि द्वितीये" त्रिसूत्रप्रमाणेन कर्मत्वन्द्वितीयार्थः, सूत्रे कर्मपदस्य ग्रामङ्गच्छतीतिवाक्यघटकग्रामादिरूपकर्मपदार्थवृतिकर्मत्वरूपधर्मपरत्वात् । यथा “गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती" तिकोशे गुणे इतिसतम्या वाचकतार्थकत्वं तथा "कर्मणि द्वितीये" त्यस्य कर्मत्ववाचिका द्वितीयेति सूत्रार्थ इत्यभिप्रायात् । ___ ननु कर्मपदं कर्मभूतग्रामादिपदार्थपरकमेवास्तु तावताऽपि निर्वाह इति चेन्न ? कर्मभूतग्रामादिपदार्थपरकर्मणो द्वितीयार्थत्वे प्रधानीभूतकर्मपदार्थे नामार्थप्रामादेरन्वयेऽपि धात्वर्थगमनादिना कर्मपदार्थान्वयो न स्यात्, कर्मभूतग्रामादिनिरूपितजनकत्वादेर्धात्वर्थगमनादावभावात् । कर्मत्वञ्च चैत्रादिकर्तृकव्यापारजन्यसंयोगादिरूपम्फलमेव तस्य च जनकत्वसम्बन्धेन साक्षादेव धात्वर्थगमनादावन्वय इति फलितार्थः ।
नच कर्मणो द्वितीयार्थत्वेऽपि तस्य कर्मभूतग्रामादिपदार्थस्य स्ववृत्तिफलजनकत्वसम्बन्धेन धात्वर्थगमनादावन्ययः । स्वं कर्म तद्वृत्ति फलं संयोगः तजनकत्वं धात्व. र्थगमनादावित्यन्वयसम्भवेन नापत्तिरिति वाच्यम् ? गौरवात् । कर्मत्वे तु ग्रामवृत्तिसंयोगजनकव्यापारवांश्चत्र इतिबोधान्न गौरवम् । द्वितीयाया मुख्योऽर्थः कर्मत्वम् ।
नच कर्मणो द्वितीयार्थत्वेऽपि कर्मत्वमेव शक्यतावच्छेदकमिति प्रकारतया कर्मत्वस्याऽपि द्वितीयार्थत्वमिति वाच्यम् ? मुख्यार्थत्वाऽभावात् । मुख्यार्थत्वञ्च वृत्तिग्रह. मुख्यविशेष्यत्वम्, तच्च तत्र नास्तीत्यभिधानात् । नच द्वितीयायास्संख्यायां शक्तिः कर्मत्वे लक्षणेत्येव कुतो नेति वाच्यम् ? “घटायोन्मीलितं चतुः परं किन्नहि पश्यतीति" न्यायेन कुत्र शक्तिः कुत्र लक्षणेति विनिगमकाऽभावादुभयत्रैव शक्तयभिधानात् । धर्ममात्रपरत्वादिति
भावप्रधाननिर्देशन कर्मत्त्वात्मकधर्मपरत्वादित्यर्थः। मात्रपदेन कर्मत्वाश्रयस्य शक्यत्वनिरोधः । लाघवञ्च फलानां संयोगविभागादीनामनन्तानन्तत्वात् तेषु शक्य. तावच्छेदकत्वकल्पनापेक्षयाऽखण्डोपाधौ कर्मतात्वे शक्यतावच्छेदकत्वे स्पष्टमेव लापवमिति अन्यतत्त्वम् ।
ननु ग्रामङ्गच्छति पटम्पश्यति गृह रक्षति धर्म करोतीत्यादिषु कर्मेदं कर्मेदमित्यनुगतव्यवहारेण विषयत्वप्रतियोगित्वानुयोगित्वादिवत् कर्मत्वमप्यखण्डोपाधिरेवेति, आश्रयत्ववच्च । तथा च कर्मत्वस्य शक्यतावच्छेदकत्वे न गौरवमिति