________________
व्युत्पत्तिवादः । कर्मत्वं च क्रियाजन्यफत्तशालित्वम् । तत्र च क्रिया धातुत एव लभ्यते ।
जम्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं सम्भबतोति फलमात्रं कर्मप्रत्ययार्थः ।
न च संयोगविभागरूपफलमपि धातुलभ्यमेव, गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादिति वाच्यम् ?
व्यापारमात्रस्य धात्वर्थत्वात् । फळविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेहे तुतया ग्रा. मं त्यजतोत्यादौ धात्वर्थस्पन्दे ग्रामनिष्ठविभागजनकत्वमेव ।
चेन्न १ गामङ्गच्छति पटम्पश्यति गृहं रक्षति इत्यादिषु सर्वत्र ग्रामादिषु शक्यतायाशक्यतावच्छेदकतायाश्च कर्मत्वे शक्ति कल्पनापेश्चया एकस्मिन् कर्मत्वे शक्यत्वस्य एकस्मिन्नेव हि कर्मतात्वे शक्यतावच्छेदकत्वस्य च कल्पने लाघावानुसन्धानात् । फलशास्त्विमिति ।
फलत्वञ्च धात्वर्थव्यापारे प्रकारतया भासमानत्वे सति धातुनिष्ठजनकतानिरूपितजन्यत्वम् । मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्, मन्दं गच्छति द्रुतं गच्छति इत्यादि तादात्म्यसम्बन्धेन धात्वर्थव्यापारेऽन्वयेन मन्दादौ दोषवारणाय धातुजन्यत्वमिति । गम्यादिधात्वर्थसंयोगानुकूलव्यापारजन्यत्वस्य पूर्वदेश विभागादौ सत्वेन तत्र दोष इति सत्यन्तनिवेशः। फलमात्रमिति ।
अनन्यलम्यो हि शब्दार्थ इतिन्यायात् फलमात्रस्यैव कर्मप्रत्ययार्थत्वविधानात् । ननु फलस्याऽपि द्वितीयार्थत्वे धातोरपि फलार्थकत्वेनानन्यलम्य इतिन्यायविरोधस्तिष्ठत्येवेति तात्पर्येण शङ्कते नचेति । व्यापारमात्रस्य धात्वर्थत्वादिति ।
ननु व्यापारमात्रधात्वर्थत्वे ग्रामन्त्यजति ग्रामङ्गच्छतीत्यादौ यत्प्रतीतिवैलक्षण्यप्रभाति तन्न सिद्धयेदित्याशयेनाह फलविशेषान्वयबोधेति । ननु ग्रामनिष्ठसंयोगजनकव्यापारानुकूलकृतिमान्देवदत्त इत्याकारकशाब्दबुद्धित्वावच्छिन्नम्प्रति किं कारणमिति प्रश्ने द्वितीयान्तग्रामपदसमभिव्याहृततिबन्तगच्छतिपदसमाभिव्याहारः कारणम् । अत एव ग्रामः कर्मत्वम् गमनमित्यादिनिराकाचवाक्याद्विशिष्टान्वयो न भवति । ___ एवञ्च ताशकारणाऽभावात् ग्रामं गच्छतीत्यादौ ग्रामनिष्ठविभागविषयकान्वयबोधवारणं ग्रामन्त्यजतीत्यादी ग्रामनिष्ठसंयोगजनकव्यापारान्वयबोधवारणमिति कथकारफलविशेषान्वयबोधे धातुविशेषजन्योपस्थितेः कारणत्वम्भूलोक्तमिति वाच्यम् ?