________________
शास्त्रार्थकलोपस्कृतः ।
फलान्वय
9
आमं गच्छतीत्यादौ च धात्वर्थस्पन्दे ग्रामनिष्ठसंयोगजनकत्वमेत्र प्रतीयते न तुं विपरीतम् । ग्रामं गच्छतीत्यादिवञ्च ग्रामं स्पन्दते इत्यादयो न प्रयोगाः । द्वितोयादेर्गम्याद्युपस्थापितस्पन्दादावेत्र बोधकत्वात् न तु स्पन्दिप्रभृत्युपस्थापिते तु स्पन्दिप्रभृत्युपस्थापिते ? तस्मिन द्वितीयादिना फलान्वयबोधजननासम्भवात् । नहि येन केनचिदुपस्थापितयोरेवार्थयोः परस्पर मन्त्रयः प्रतोयते । तथा सति घटकर्मत्वादिपदोपस्थापितयोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसङ्गात् । कृनादिसमानार्थक धातूपस्थाध्यफले विषयितार्थ कद्वितीयार्थान्वयसम्भवेन घटं करोतीतिवद् घटं यतते इत्यादिप्रयोगप्रसङ्गाच्च । अपि तु ययोर्यादृशान्ययबोधे आकाङ्क्षा सदुपस्थापितयोरेव तादृशान्वथबोधः । आकाङ्क्षा च द्वितीयादुर्गम्यादिना जादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृ तिनेति ।
न चाकाङ्क्षात्र समभिव्याहारः, स च गम्यादिनेव स्पन्दादिनापि समान एवेति वाच्यम् ? यतो द्वितीयादेर्गम्यादिसमभिव्याहारस्यैव फलबलादन्वयबोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहारस्येति न तस्याकाङ्क्षात्वम्, अन्वयबोधौपयिकसमभिव्याहारादस्यैव
तथात्वात् । अत एव समानार्थकत्वेऽपि गम्यादेरिव न स्पन्दादेः सकर्मकत्वव्यवहारः, फलान्वितव्यापारबोधकधातुत्वस्यैव तन्नियामकत्वात् । व्यापारमात्रन्धात्वर्थ इति सिद्धमेवश्च ग्रामङ्गच्छतीत्याकाङ्क्षाज्ञानसत्त्वे गम्धातोर्यदि 'न व्यापारोपस्थितिरपि तु त्यज् घातोरेव व्यापारोपस्थितिस्तदा ग्रामनिष्ठसंयोगजनकव्यापारानुकूलकृतिविषयकशाब्दबोधापत्त ेः । तथा च फलविशेषान्वयबोधे धातुविशे
२०७
'जन्योपस्थितेरावश्यकत्वात् ।
नतु विपरीतमिति ।
ग्रामङ्गच्छतीत्यत्र ग्रामनिष्ठविभागजनकत्वं ग्रामन्त्यजतीत्यत्र ग्रामनिष्टसंयोगजनकत्वमित्येवम्बिपरीतन्न प्रतीयत इति ग्रन्थाशयः ।
तन्नियामकत्वादिति ।
सकर्मकत्वव्यवहारनियामकत्वादित्यर्थः । ननु विषयित्वादेरखण्डोपाधित्वेन नित्यत्वन्तथा च घटञ्जानाति पटञ्जानातीत्यादौ व्यापारजन्यफलाऽभावेन सकर्मकत्वन्न - स्यादिति चेन्न ? व्यापारत्वभिन्नत्वे सति धात्वर्थव्यापारे विशेषणतासम्बन्धेन बोधविषयत्वे सति धात्वर्थत्वम्फलत्वम् । तथा चैतलक्षणम्विषयत्वादावपीति सकर्मकत्वञ्जानातेस्सिद्धम् ।
ननु व्यापारमात्रस्य धात्वर्थत्वे गच्छति त्यजतीत्यादौ धातुविशेषजन्यव्यापारोपस्थित्या वैलक्षण्यसिद्धावपि यत्र द्वितीयान्तपदन्नास्ति त्यजति गच्छति त्यागो