________________
२०८
व्युत्पत्तिवादः। अथ धातोर्यापारमात्रवाचित्वे त्यजति गच्छति त्यागो गमनमित्यादिवाक्यादविलक्षणबोधप्रसङ्गः, न हि शक्तिभ्रमाद्यजन्मनोस्तादृशवाक्यजन्यबोधयोरवैलक्षण्यं कश्चिदभ्युपैति ।। __ तथा सति त्यागादितात्पर्येण त्यागगमनादिपदं व्युत्पन्ना अपि प्रयुखो. रन् । न च तत्र फलविशेषावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विल. क्षणबोधोपपत्तिरिति वाच्यम ? लक्षणया विलक्षणवोधजननेऽपि शक्तयाऽ. विलक्षणबोधजननसंभवेन दर्शितातिप्रसङ्गस्य दुर्वारत्वात् । न च गम्यादिशक्तिमानजन्यार्थोपस्थित्या फलाविषयकान्वयबोधस्य कुत्राप्यजननात् ताहशोपस्थितिघटितसामग्रीशरोरे फलविशेषबोधकसामग्रो निवेश्यते । तथा ध त्यागगमनादिपदयोः शक्तया नाविलक्षणबोधजनकतेति वाच्यम् ? त्यजिगम्योरेकार्थवाचकतारूपपर्यायतां विपर्यस्यतो गमनादिपदात त्यागा. दिपदजन्यबोधसमानाकारकबोधस्य सर्वानुभवसिद्धतया गम्यादिशक्ति. ज्ञानात्फलाविषयकयोधस्यापि पदजन्यबोधनियामकताया वक्तुमशक्य. स्वात् । तथा चाप्राप्तस्यापि भवन्मते ततोऽविलक्षणबोधतात्पर्येण व्युत्पन्नानां तादृशप्रयोगप्रसङ्गो दुर्वार इति चेत् ? मैवम्, कर्मप्रत्ययासमभिव्याहृतत्यागगमनादिपदस्य तत्तत्फलावच्छिन्न व्यापारेऽनादितात्पर्य कल्प्यते न तु केवलव्यापारे। अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामकमिति एकार्थतात्पर्येण प्रामाणिकानां स्वारसिको न त्यागगमनादिप. दप्रयोगः ।
एवं त्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्य फलविशेष एव नियतं तादृशं तात्पर्यमिति न विभागादितात्पर्येण ग्रामं गच्छतीस्यादिप्रयोगः । तदर्थबोधकत्वमानं तु न तदर्थतात्पर्येण स्वारसिकप्रयोगनियामकम्, तथा सति शक्तिभ्रमादिना घटपदस्यापि पटादिबोधकतया पटेऽपि घ. टादिपदप्रयोगापः। नापि शक्त्या वोधकत्वं तथा? निरूढलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाज्ञानं चान्तरेण गम्यादेविभा. गादिरूपफलविशेषितस्पन्दादिबोधकत्वाभावनियमोऽसिद्ध एवेति तागमनमित्येव वाक्याकारस्तत्र वैलक्षण्यं सार्वजनीनं कथङ्कारमुपपद्यतेत्याशयेन विवृणुते अथ धातोर्यापारमात्रेति । तथासति इति । अविलक्षणबोधे सति पर्यायता विपर्यस्यत इति त्यजिगमी समानार्थकाविति भ्रमवत इत्यभिप्रायः ।
नच . त्यजिगम्योस्समानार्थकत्वेऽपि भ्रमःकथम् ? एतावता ग्रन्थेन व्यापारमात्रन्धात्वर्थः इत्येव सिद्धन्तथा च पर्यायवन्नामैकार्थवाचकत्वमेव, तच त्यजिगम्योस्तु. ल्यमेवेति, वास्तविकमेव पर्यायत्वं भ्रमत्वन्नैव सङ्गच्छत इति कथं ग्रन्थो लगतीति'