________________
शाखार्थकलोपस्कृतः
२०९ त्पर्यभ्रमसहकृतशक्तिप्रमया तावशबोधजननेऽपि न क्षतिः।
विना लक्षणाग्रहं भ्रमानधीनतादृशबोधो गमिप्रभृतितो न सम्भवतीत्येव नियमः, स च तात्पर्यभ्रमेणव निर्वहति । विभागाद्यर्थं पूर्वपूर्वेषामनादितात्पर्यभ्रमवतो वक्तः स्वकीयतात्पर्येण प्रामं गग्छतोत्यादिप्रयोगो यत्र तच्छोतुस्तात्पर्गभ्रमासम्भवेऽपि वक्तृतात्पर्यानादित्यभ्रम एव प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न ताशनियमक्षतिरिति प्राचीनपथपरिष्कारप्रकारः।
नव्यान्तु संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः, तद्धा. स्वर्थतावच्छेदक फलशालित्वमेव तद्धातुकर्मत्वं नातो गम्यादिकर्मत्वस्य पूर्व देशादौ प्रसङ्गः, न वा स्पन्देः सकमेकत्वं ? तत्र फलस्य धात्वर्थतानवच्छेदकत्वात् ।
एवं च धातोरेव फलविशेषलाभात्, फलान्वयिनि वृत्तिरेव द्वितीवाच्यम् ? फलावच्छिन्नव्यापारे शक्तिवादिनाम्मते अन्यस्यास्य कथञ्चिसंलगनात् । नक्षत्तिरिति ।
त्यागादितात्पर्यण व्युत्पन्नानां न गमनादिपदप्रयोगापत्तिरिति तत्त्वम् । विना लक्षणामहमिति । तथा च शक्तिभ्रमेण लक्षणया वा गम्यादिभ्यस्ताहश. शाब्दबोधो भवतीति तत्त्वम् । न ताद्वशनिकक्षतिरिति । विना लक्षणाग्रहमिति तटस्थनियममङ्गता नेति, स्पन्द इति स्पन्द : क्रिया व्यापारो वेति ध्वनिः नव्यास्तु इति ।
नवीनमते न केवलव्यापारवाचकत्वन्धातूनामपि तु "फलव्यापारयोर्भातु' रितिवैयाकरणमतवत् संयोगादिरूपफलविशेषावच्छिन्नस्पन्दादिव्यापारवाचकत्वमेव । गम्यादीनाम्फलविशेषावच्छिन्नत्वञ्च संयोगादिरूपफलविशिष्टत्वम् । वैशिष्टयञ्च स्वजनकत्वसम्बन्धेन । एवञ्च गम्धातोस्सयोगरूपफलावच्छिन्नस्पन्दे शक्तिनतु स्पन्दमात्र इति विभागादितात्पर्येण न गच्छतीति प्रयोगाऽपत्तिः । कर्मत्वस्वरूपमाह तद्धात्व. थेति । तद्धात्वर्थानधिकरणत्वे सति तद्धात्वर्थतावच्छेदकफलशालिस्वन्तद्धातुकर्मत्वम् । गमधात्वर्थताःच्छेदकसंयोगवश्वेन चैत्रस्याऽपि फ: कर्मत्ववारणाय सत्यन्तनिवेशः । धात्वर्थजन्यफलशालित्वमिति विहाय धात्वर्थतावच्छेदकफलशालित्वमिति निवेशफळन्तु पूर्वदेशविभागस्य गम्धात्वर्थव्यापारजन्यत्वेऽपि तस्य धात्वर्थतावच्छेदकत्वाऽभावे त्यजिगम्योयभिचारवारणमेव । _ नच धात्वर्थतावच्छेदकीभूतग्व्यापारत्वमेवाश्रित्य व्यापारेऽपि लक्षणसंघटनात्कमस्वाऽपत्तिरिति वाच्यम् १ अत्र लक्षणे फलपदेन क्रियाजन्यफलस्यैव विवक्षणेन क्षतिविरहात्।
फलान्वयिनी वृत्तिरेवेति । आधेयत्वमेवेत्यर्थः। ग्रामं गच्छतीत्यत्र ग्रामवृत्ति१४ व्यु०