________________
२१०
व्युत्पत्तिवादः। यार्थः । न च कर्मणि द्वितीयेत्यनुशासनविरोधः १ तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्य तदुत्तरं द्वितीयेत्यर्थकत्वात् ।। ___ न चैवं तस्यं शक्तिप्राहकत्वानुपपत्तिः१ अनादितात्पर्य प्रहसंपादकस्वेन परंपरया शक्तिग्राहकत्वसंभवात् । न च फलस्य पदार्थकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयासंभवः ? व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वयस्वीकारात् । ___ अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदके भेदान्वयबोघसम्भवेन एतादृशप्रयोगस्य वारणाय फलविशेष्यकान्वयबोधे - तद्वि. शेष्यफवृत्तिज्ञानजन्यफलोपस्थितित्वेन हेतुत्वकल्पनस्यावश्यकत्वात्, ___ तादृशकारणबाधेन धावयेत्तावच्छेदकफळे द्वितीयार्थान्बया संभवः । न च यादृशपदसमभिव्याहारज्ञानात् फलविशेष्यकस्पन्दभेदान्वयबोधः प्रसिद्धः तादृशपदसमभिव्याहारज्ञानताशपदज्ञान जन्यफठाधु पस्थितिघटितसामप्रथास्वादृशान्वयबाधोत्पादप्रयोजिकाया असत्त्वेनोक्तस्थळे सदापत्त्यसम्भव इति वाच्यम् ? यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलोपस्थितिस्तत्र फलविशेष्यकापन्दभेदाग्वयबोध प्र. सिद्धथा गमनपरसमभिव्याहारतज्जन्यफापस्थितिघटितसामप्रथाः फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोधप्रयोजकताया आवश्यकत्वात् तद्वलेन शक्तिप्रमाधोनवोधेऽपि फलांशे स्पन्दभेदादिभानप्रसङ्गः। एवं च फलव्यापारयोः पृथक् शक्तिस्वीकारपक्षेऽपि न निस्तारः। संयोगानुकूलव्यापारानुकूलकृतिमाँश्चेत्र इति बोधः । अत्र व्यापारपदेन चरणादिप्रक्षेप. रूपक्रिया गृह्यते । फलान्वयिनीति विषयत्वं सप्तम्यर्थः। तस्येच्छायामन्वयः, फलनिठाधेयत्वान्वयिविषयकप्रकृतितात्पर्ये सति प्रकृत्युत्तरं द्वितीया स्यादित्यर्थः । एवञ्च तन्मते सूत्रे कर्मणीति सप्तमी न वाचकत्वार्थिकेति फलति ।
परम्परया शक्तिग्राहकत्वेति । अत्रानुमानमपि प्रमाणमिति शिष्टास्तथाहि, द्वितीया आधेयत्वार्थिका, असति वाधके स्वघटितवाक्यघटकपदान्तराऽबोध्याधेयत्वान्वितस्वार्थतात्पर्यविषयप्रकृतिकत्वात् । प्रथमस्वपदेन द्वितीयाया एव ग्रहणम् । स्वाथेत्यत्र स्वपदेन प्रकृतेर्ग्रहणम् । ___ व्युत्पत्तिवैचित्र्येणेति । धात्वर्थतावच्छेदकातिरिक्तस्थले पदार्थः पदार्थेना. न्वेतीति नियमः प्रवर्तते । अर्थात् धात्वर्थतावच्छेदकस्थले पदार्थैकदेशेऽप्यन्वय इति पदार्थकदेशे फले द्वितीयार्थाऽधेयत्वान्वये न कोऽपि विरोध इत्यभिप्रायः।
अथ गमनं न स्पन्द इति । नन्वनया रीत्या द्वितीयाधेियत्वस्य धात्वर्थे - कदेशेऽपि यदि संयोगादिरूपफलेऽन्वयस्तदा गमनं न स्पन्द इत्यत्र गमनन्नाम संयोगानुकूलव्यापारस्तत्र स्पन्दभेदाऽभावेपि तद्घटकसंयोगे तदन्वये न कोऽपि बाधक इति