________________
२१२.
शास्त्रार्थकलोपस्कृतः तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन ताशप्रयोगापचेर्दुरत्वादिति चेन ? तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिजन्यतावच्छेदककोटौ तादृशोपस्थित्यव्यवहितोत्त. रत्वनिवेशनमावश्यकम् , विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे नानाहेतुताया व्यवस्थापितत्वात् एकपदाधीनतद्विषय. कशाब्दबोधे पदान्तरवृत्तिज्ञान जन्यतदुपस्थितेय॑भिषारम्य प्रकारान्तरेण वारणसम्भवात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोघेऽपि क्षतिविरहात् तत्र तादृशकारणस्य व्यभिचाराप्रसक्तरिति वदन्ति ।
अत्रेदं चिन्त्यते । व्यापारमात्रस्य धात्वर्थतायामपि सर्वानुपपत्तोनामुधृतत्वात् फलावच्छिन्नव्यापारस्य गुरुतया तथात्वमनुचितम् । अथ फळे द्वितोयादेः शस्त्यन्तरकल्पनामपेक्ष्य धातोर्विशिष्टशक्तिकल्पन मेवोचितम् । न च भवन्मतेऽप्याधेयस्वे द्वितीयादेः शक्त्यन्तरस्य कल्पनीयस्वात्तदंशे साम्यमिति वाच्यम् ? ग्राममध्यास्ने ग्राममधिशेते प्रामं संयुनक्तोत्यादौ द्वितोयायाः सर्वमत एवावेयत्वबोधकतया द्वितीयादेः फल. वाचकत्वमतेऽपि बाधेयत्ववाचकताया आवश्यकत्वात् । न च द्वितो.
गमनं न स्पन्द इति प्रयोगस्यादेव, धात्वर्थस्य स्पन्दरूपत्वेन तत्र स्पन्दभेदाऽस. म्भवान्नैवम्प्रयोग इष्ट इति प्रश्नः । तादृशकारणबाधेनेति । ___ संयोगविशेष्यकवृत्तिशानजन्यसंयोगोपस्थितिरूपकारणबाधेनेति तत्त्वम् । तद्विशेष्यकवृत्तिज्ञानजन्येति ।
अत्र दन्तत्त्वम् , यदि प्रकारतासम्बन्धेन शाब्दबोधम्प्रति प्रकारतासम्बन्धेनोपस्थितिःकारणमित्युच्यते तर्हि घटपदाद् घटानुपस्थितौ कलशपदाच घटोपस्थिती शाब्दबोधाऽपत्तिः। घटत्त्वावच्छिन्नविषयताशालिशाब्दबोधम्प्रति घटत्त्वावच्छिन्नविशेष्यकघटपदवृत्तिज्ञानजन्यपटोपस्थितिः कारणमितिकयनेनाऽपि न निर्वाहः १ कलशपदजन्यघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्थले घटपदजन्यघटोपस्थित्यभावेन व्यभिचारापत्तेः । तथा च घटत्त्वावच्छिन्नधर्मिकघटपदवृत्तिशानजन्यप्रटोपस्थित्यव्यवहितोत्तरशाब्दबोधप्रति घटत्त्वावच्छिन्नधर्मिकघ टपदवृत्तिशानजन्यघटोपस्थितिः कारणम्। एवमन्यत्रापि बोध्यम् । ___ तथा च फलावच्छिन्नव्यापारशक्तिवादिमते संयोगत्वावच्छिन्नधर्मिकगमधातुवृत्ति. ज्ञानशाब्दबोधहेतुत्वाऽभावेनाक्षतेः। . तदंशे साम्यमिति-एवञ्च विशिष्टशक्तिपक्षे नवीनानां गौरवमेव ।