________________
२०२
व्युत्पत्तिवादः। श्रथ गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्वादिबोध. कता ? संख्याया गुणत्वेन गुणादौ बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसम्बन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम् ? एकव्यक्ता वपि तादृशसम्बन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्यणापि द्विवचनाद्यापत्तिरिति चेत् ?
न, अपेक्षाबुद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चौकमात्रवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्य. स्वविशिष्टपर्याप्तिसम्बन्धेन प्रकृत्यर्थेऽन्वेति ।
अन्यत्र शुद्धपर्याप्तिसम्बन्धेनेति न द्वन्द्वादिस्थलोक्तदोष इति विदुषांपरामर्शः।
इति प्रथमाकारकम् ।
अत एव "कत्तरीप्सिततमङ्कर्म" इतिसूत्रघट केप्सितपदे "मतिबुद्धि"इति वर्तमाने क्तप्रत्ययेऽपि तदविवक्षयैव षष्ठी सिध्यति । एवम्प्रबन्धेनैव ग्रामं गमिष्यति ग्राममगमदित्यादौ कर्मत्वं सिध्यति ।
'नच लडर्थवर्तमानत्वविवक्षायान्न मानमिति वाच्यम् ? "कत्त" इतिसौत्रप्रयोगानुपत्तः । अतएव "कर्मणि हनः" इतिणिनिविधानं संगच्छते । अत एव च मीमांसायां मौद्गश्वकर्भवतीतिवाक्ये सर्वकालावच्छेदेन यागीयचरूविधानं सुसंगतमित्यलम् । । तादृशसम्बन्धेनेति-स्वाश्रयसमवेतत्वसम्बन्धेनेति फलितार्थः । एकमात्रधर्मस्येति-एकमात्रवृत्तिधर्मस्येति तु नेवार्थों घटते रूपत्वरसत्वयोरेकमात्रवृत्तित्वाऽभावेन एकरूपादिमत्यपि वस्तुनि अत्र रूपे वर्त्तते इतिप्रयोगप्रामाण्यापत्तः। नात्र प्रकृत्त्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः प्रतीतिरित्यभिप्रायवर्णनात् । द्वन्द्वादिस्थलेति 1
पदभेदे द्वन्द्वः पदार्थभेदे द्वन्द्वः पदार्थतावच्छेदकभेदे वा द्वन्द्वः साहित्ये द्वन्द्वः । तत्र साहित्ये साहित्यावच्छिन्ने वा न द्वन्द्वः ? हिम विन्ध्याख्यपर्वतयोविभिन्नभूभागस्थत्वेन साहित्याऽभावात् हिमविन्ध्यावित्यत्र द्वन्द्वाऽनुपपत्तेः। नचैकक्रियान्वयित्वं साहित्यमिति नानुपपत्तिरिति वाच्यम् ? हिमविन्ध्यौ पश्य छिन्धि गच्छ पूजय हिमदिन्थ्यौ सुन्दरौ स्त इत्यादिषु तदभावात् । सूत्रार्थमर्यादया साहित्याऽननुभवाच्च । तथा च पदार्थभेदे द्वन्द्वः । नच "अप्येकदन्तहेरम्बलम्बोदरगजननाः" घटकलशौ नीलघटयोरभेदः, प्रमाणप्रभेयसंशयप्रयोजने" तिगौतमसूत्रे च द्वन्द्वानुपपत्तिः । द्वन्द्वापवाद एकशेष इतिनियमानुरोधेन घट इत्यत्र पदार्थमेदाऽभावेन द्वन्द्वाऽप्राप्त्या नियमभङ्गश्चेति वाच्यम् १ पदार्थत्वम्नाम पदजन्यप्रतीति विषयत्वम् तच्च पदार्थतावच्छेदकसाधारणम् तत्रापि प्रकारतारूपविषयतासत्त्वात्, घटा इत्यत्र घटे विशेष्यतारूपविषयतासत्त्वात्,