________________
शास्त्रार्थ कलोपस्कृतः ।
२०१
सि “सुपां सुलुगि" त्यादिसूत्रेण औजसादिस्थाने स्वाद्यादेशस्य वैयर्थ्यात् ।
चैत्रादिपदोत्तरैकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थं मैत्रादिसाधारणद्वित्वादिबोधस्यो कव्युत्पत्तिविरोधेनानुपपत्तेश्च आख्याता तार्थ संख्यास्वयबोधे च समानविशेष्यकतदर्थ भावनान्वयबुद्धिसामग्री अपेक्षिता, भावनाया बाधादिग्रहकाले तात्पर्यशून्यकाले वा उक्तस्थले द्वित्वान्वयाबोधात् ।
यथाः
भावनाया अविशेष्ये धात्वर्थादौ संख्यान्वयाबोधाच्च तादृशसामसंख्यान्वयबुद्धित्वावच्छिन्नं प्रति स्वातन्त्र्येण हेतुता, तदकल्पनेइक्ि आख्यातजन्यसंख्योपस्थिति योग्यताज्ञानविशेषादिघटित सामप्रचा भावनानवगाहि संख्यान्वयबोधस्य कक्षाप्यजननात्, संख्यान्वयबोध साधारणभावनान्वयबोधत्वावच्छिन्न हेतूनामपि तादृशसामग्रीघटकत्वेनापत्यभावात् । न च तादृशकारणानां भावनान्वयबुद्धित्वं संख्यान्वयबुद्वित्वं वा जन्यतावच्छेदकमुपेयते इत्यत्र विनिगमनाविरहः ? संख्यामविषयोकृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात् । द्वितीयस्य जन्यतावच्छेदकत्वासम्भवादिति दिक् ।
सुपां कर्मादयोऽप्यर्थास्संख्या चैव तथा तिङाम् । प्रसिद्धी नियमस्तत्र नियमः प्रकृतेषु च ॥ इति ।
न च जानातीत्यादौ तिङ आश्रयत्वे लक्षणादर्शनेन कथमयन्नियम इति वाच्यम् ? 'भानुशासनिकातिरिक्तार्थे सुब्बिभक्तेर्न लक्षणेति तात्पर्येण तिङो लक्षणायामपि क्षतिविरहात् । नच "हन्ति पुण्यम्पुराकृत" मित्यत्र पुण्यप्रतियोगिकनाशानुकूलव्यापारविषयको बोधस्तत्र द्वितीयायाः प्रतियोगित्वे लक्षणेति तत्र किमनुशासनम् १ तथाचानुशासनिकातिरिक्तार्थे सुब्विभक्तेर्न लक्षणेति नियमः कथाङ्कारं सिद्धयेदिति वाच्यम् १ सुपां कर्मादयोऽप्यर्था इत्यनुशासनस्य प्रायिकत्वाभिधानात् ।
उक्तव्युत्पत्तीति-प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्प्रत्ययानामितिव्युत्पत्तीति 1 नन्वाख्यातार्थसंख्यान्वयबु द्वित्वमेव लाघवानुरोधेन कार्यतावच्छेदकमिति तात्पर्येणाह तादृशसामग्ख्या इति ।
जभ्यतावच्छेदकत्वासम्भवादिति दिगिति ।
ननु दिगर्थोऽत्र क इति प्रश्नः ? त्रयः काला इत्युक्तौ प्रयोगकालिकवर्त्तमानत्वस्य सर्वत्र प्रसरत्वेऽपि प्रकृते वर्तमानार्थासंघटनेऽपि लडर्थवर्तमानत्वविवश्चणेन सन्तीत्यध्याहारेण त्रयःकालास्सन्तीतिप्रयोगो भवत्येवेत्येव दिगर्थ इत्युत्तरम् ।
लडर्थवर्त्तमानत्वं सर्वत्र विवक्षितन्न भवति "गमेरिट् परस्मैपदेषु" इत्यत्र परस्मै. पदग्रहणन्तङानयोरभावबोधकन्तदर्थकत्वेनाविवक्षावत् ।