________________
२००
व्युत्पत्तिवादः । कर्तृत्वादिकमिति वाच्यम् ? तथापि चैत्रेण द्वश्यमानं घटं मैत्रः पश्यतीत्यादी ज्ञानभेदेन विषयताभेदाभावात् । चैत्रदर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताभिधानाद् द्वितीयानुपपत्तिरिति चेन्न ? सत्तत्प्रातिपदिकार्थविशेषणत्वमात्रेण कर्तृकर्मत्वाद्यविवक्षाया एवं तदनभिधानपदार्थत्वात । तत्तत्प्रातिपदिकार्थविशेष्यतया कर्मत्वकर्तृत्वादि. विवक्षया द्वितीयाविभक्तेः साधुत्वमित्यर्थे तात्पर्यस्य पर्यवसितत्वात् । शेष आख्यातार्थविचारे विवेचयिष्यत इत्यलमत्राधिक्येन । __आख्यातद्विवचनबहुवचनयोस्तु संख्याबोधकत्वमावश्यकं चैत्रो मैत्रश्च गच्छतः चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादौ 'चन्द्रे कललः सुजने दरिद्रता विकाशलक्ष्मी: कमलेषु चञ्चला। मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्" इत्यादौ च द्वित्वबहुत्वबोधकसुपोऽभावात् ।
न च तत्र सुबेकवचनस्यैव द्वित्वबहुत्वादी लक्षणास्त्विति वाच्यम् ? आनुशासनिकातिरिक्तार्थे सुधिभत्तेलक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविव च्छन्दसि लक्षणयैव स्वादिना द्वित्वा. दिबोधनसंभवात् । औजसादिरूपादेशस्मृतद्वित्वादिबोधानिहाय . छन्द
प्रधानशक्तभिधान इति । तदुक्तम्
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिगुणाश्रया तत्र प्रधानमनुरुध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाऽभिधीयते ।
यथा गुणे तथा तद्वदनुक्ताऽपि प्रतीयते ॥ इति प्रधानक्रियानिरूपितकर्तृत्वकर्मत्वाऽनभिधाने गौणक्रियानिरूपितकर्तृत्वकर्मत्वे अभिहिते ओदनः पक्त्वा भुज्यते घटः कतु शक्यत इत्युदाहरणम् । एतावता ग्रन्थेन नाख्यातैकवचनस्यैकत्वमर्थः किन्तु सुप एवेति सिद्धान्तः । ___ आख्यातद्विवचनबहुवचनयोरिति-- क्रियायां द्वित्वसंख्याऽन्वयाऽसम्भवेन चैत्रमैत्रपदोत्तरसुवेकवचनञ्च साधुत्वमात्रार्थकत्वान्निरर्थकमेव । चैत्रमैत्रद्वये तु सुबर्थैकत्वस्य बाधितत्वेनाऽन्वयाऽसम्भवादित्यभिप्रायः ।
सुब्बिभक्तेलक्षणाया इति-सुन्निभक्तौ न लक्षणेति । अत्र प्रमाणन्तु "कतृकमणोः कृती" तिसूत्रमन्यथा लक्षणया शेषषष्ठयैव कत्तत्वकर्मत्वलाभे पृथक् तदिधानं ज्ञापकम्।
न च "न बहुव्रीही" "द्वन्द्वे चे" तिपाणिनिसूत्रे बहुव्रीहाविति सप्तम्याः प्रथमार्थकत्वेन कथमयनियम इति वाच्यम् ? सूत्राणां छन्दोवत्वेन निर्वाहात् । तदुक्तम्बातिककृता--