________________
शास्त्रार्थ कलोपस्कृतः ।
श्रच मुख्यविशेष्यतया तस्य बोधात्तादृशाख्यातधात्वोरानुपूर्वीविशेषाकाङ्गायाः कृतिबोधौपयिकत्वात् । न च समभिव्याहाररूपाकाङ्क्ष ेव विवक्षणीया, प्रकृते प्रकृतिप्रत्यययोरानुपूर्वी रूपाकाङ्क्षा न तु समभिव्याहार इति नोक्तानुपपत्तिरिति वाच्यम् ? तथा सति चैत्रेण पचतोत्यादावपि तृतोयायाः साधुतापत्तेः । तादृशचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् । चैत्रेण विजेष्यते मैत्र इत्यादौ तृतीयानुपपत्तेश्च विजेष्यते मैत्र इत्यादितः मैत्रकृतिबोधात्तादृशाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् । किंतु तत्तात्पर्यशून्यत्वमेव । तथा च चैत्रेण पक्ष्यत इत्यादावाख्यातस्य कर्तृत्वादितात्पर्यकत्वे तृतीया असाधुरेव ।
१९९
तथा च चैत्रेण पचतीत्यादावाख्यातस्यार्थाविवक्षायां तृतीयायाः साधुत्वेऽपि परस्मैपदम्यासाधुत्वान्न प्रयोगः, परस्मैपदस्यासाधुत्वं धात्वर्थविशेष्यस्य प्रत्ययेनाविवक्षणे भावकर्मणोरिति सूत्रेणात्मनेपदनियमात् ।
च
आख्यातार्थविवक्षायां न चैत्रेण पचते इत्यादिप्रयोगः, शबादिविकरणस्यासाधुत्वात् । कर्तृत्वतात्पर्य कसार्वधातुकयोग एव तत्साधुत्वात् । कर्तृ स्वकर्मत्वोभयतात्पर्येण मैत्रः पक्ष्यते तण्डुल इत्यादयस्तु न प्रयोगाः ? तदेकतरबोधेऽन्यपरत्वेनागृह्यमाणाख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुत्वात् । चैत्रेण पक्ष्यते तण्डुल इत्यादौ कर्तृत्वादावाख्यातस्य तात्पर्यमहे कर्मत्वाद्यन्वयबोधोऽपि न भवत्येव । अथ पकानि भुङक्के चैत्रः, ओदनः पक्त्वा भुज्यते इत्यादौ कृतां क्रमेण कर्तृकर्मत्वानभिधानाच्चैत्रपदौदनपदाद्युत्तरं तृतीयाद्वितीये कथन्न स्याताम् ।
न च कृताऽनभिधानेऽपि आख्यातेन तदभिधानान्नानभिहितत्वं समभिव्याहृतपदाभिहितत्वसामान्याभावस्यैवानभिहितपदेन विवक्षणात् । समभिव्याहृतेतिकरणाच्च चैत्रेण गम्यते ग्रामस्तं मैत्रो गच्छतीत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः । गच्छति गम्यत इत्याख्यातस्य तन्तत्पदासमभिव्याहृतत्वादिति वाच्यम् १ तथा सति मुञ्जानेन चैत्रेण पच्यते भोक्तव्यमोदनं पचतीत्यादौ तृतीयाद्वितीययोरनुपपत्तिः । कृता कर्तृत्वकमत्वयोरभिधानात् । कृता तत्र भोजनकर्तृत्व तत्कर्मत्थयोरभिधानेऽपि पाककर्तृत्वं तत्कर्मत्वं वानभिहितमिति चेतर्हि प्रकृतेऽपि तदनभिहितमेव । न च प्रधानक्रियानिरूपित कर्तृत्वाद्यनभिधाने तृतीयादेः साधुतेति । तदुक्तम् । " प्रधानशक्तचभिधाने गुणशक्तिरभिहितवत्प्रकाशते" इति शक्तिः