________________
१९८
व्युत्पत्तिवादः
रणस्य दर्शितवाक्यातदुपपादनस्य शक्यत्वात् । न च निरुत्तसंख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे चैत्रेण स्वं दृश्यते, चैत्रः स्वं पश्यतोत्यादौ तृतीयाद्वितीययोरनुपपत्तिः 1 कर्त्रादिविशेष्यकसंख्याप्रकारकान्वयबोधौपयिकाकाङ्क्षाज्ञानीयविषयत्वनिरूपकत्वस्य तत्राख्याते सस्त्रादिति वाच्यम् ? कर्त्रादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वाऽनिरूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले चैत्रपदस्वपदाख्यातपदयोर्द्वितीये तत्पर चैत्राख्यातपदयोः समभिव्याहारस्यैव तद्विशेष्यक संख्यान्वय
बोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेन्न ? अनभिहिते इत्यधिकारे कर्तृकरणयोस्तृतीयेत्याद्यनुशासनम्य किं प्रयोजनमिति वक्तव्यम् ।
चैत्रः पचति तण्डुलः पच्यते, इत्यादौ चैत्रतण्डुलपदाभ्यां द्वितीयातृतीययोरप्रयोग इति चेत् ? तत्किं मणिमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधित्ता येन तदभावस्तत्प्रयुक्तः स्यात् । न चैकं सम्भवति पचति पच्यते इत्यादिक्रियायोगे कर्तृकर्मवाचकपदानन्तरतृसोयाद्वितीययोरसाधुत्वस्य तत्कर्तृ स्वतत्कर्मत्वादिबोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तम्येति चेत्तहि ? उक्तनियमपरतया पि न ततस्तल्लाभः । प्रथमान्त चैत्रतण्डुलपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्यातार्थसङ्ख्यान्वयबोधप्रयो
जकतया चैत्रेण पचति तण्डुलं पच्यते इत्यादिवाक्यघटक चैत्रतण्डलादिपदतिबादिपदयोः समभिव्याहारस्यातथात्वेन तद्धटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमाव्यवच्छेद्यत्वात् । तम्मान्मुख्यभाक्तसाधारणकर्तृश्वकर्मत्वयोः कर्तृ कर्मवाचकपदसमभिव्याहृतलकृत्तद्धितसमासैरनभिधानमेव तृतीयादिनियामकं शिरोमणिभिरचैव निभरो विहितः । लादीनां तदनभिधायकत्वं च न तदवाचकत्वं तन्निष्टवृत्त्यनिरूपकत्वं वा । आख्यात सामान्यस्याप्याख्यातत्वेन लत्वादिना वा कर्तृत्वादिनिष्ठशक्तिलक्षणानिरूपकत्वात् । कतृत्वानभिधायका ख्यातस्यैवाप्रसिद्धेः । तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वमेव तत् । चैत्रेण पच्यते तण्डुल इत्यादावातच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यं
ख्यातस्य कर्तृत्वादिवाचकत्वेऽपि
तत्राक्षतमेव, चैत्रादिपदोत्तरतृताययैव कर्तृत्वबोधनसम्भवात् तत्र तादृशाकाङ्क्षाया अकल्पनात् इत्यपि न । चैत्रेण पक्ष्यते इत्यादौ तृतीयानुपपत्तेः पक्ष्यते चैत्र इत्यादितश्चैश्रादौ पाककृतेः केवलात्पक्ष्यत इत्यादित
विकरणस्येति-विकरणत्वञ्च प्रकृतिप्रत्ययमध्यपतितत्वम्, यथा शपूश्यनादयः ।